________________ // 387 // प्राप्ता परचमूः खिन्ना, सोत्साहेन बलेन नः / करिणीव करीन्द्रेण, श्येनेनेव कपोतिका .. // 384 // श्रुत्वा विभाकरं तत्र, तच्चौरं तमवादयम् / पुरुषो भव युद्धाय, रे पापिष्ठ ! क्व गच्छसि // 385 // प्रवाहा इंव गंगायास्त्रयस्तबलनायकाः / ततो ववलिरेऽस्माकं, संमुखं योद्धमिच्छवः // 386 // अहं कनकचूश्च, तथा कनकशेखरः / त्रयोऽप्यग्निवदुद्दीप्तास्त्रीनमून् हन्तुमुद्यताः इतश्च नन्दनोर्वीशदूतोऽभ्यर्णस्थितो मया / पृष्टो विकट ! जानीषे, क एते नायकास्त्रयः // 388 // स प्राह वामपार्श्वे यः, सेनायाः स कलिंगराट् / ख्यातः समरसेनाख्यो, विभाकरपितुः पतिः // 389 // आस्ते त्वत्संमुखः सोऽयं, मध्ये सैन्यस्य यः स च / प्राप्तः कनकचूडं तन्मातुलो बङ्गराट् द्रुमः / // 390 // सैन्यदक्षिणभागस्थश्चायं साक्षाद्विभाकरः / . अदूर एव कुपितः प्राप्तः कनकशेखरम् // 391 // वदत्येवेति विकटे, लग्नं युद्धं सुदारुणम् / वृष्टिभिः शरधाराणां, छ्नं मार्तण्डमण्डलम् // 392 // युद्धक्रुद्धभटच्छिनकुम्भिकुम्भस्थलोद्गतैः / / असद्भावः खपुष्पाणामपास्तस्तत्र मौक्तिकैः // 393 // बाणवृष्ट्या भटच्छिन्नमातङ्गासप्रवाहतः / खड्गविद्युद्विलासैश्च, प्रावृट्कालस्तदाऽजनि // 394 // भग्नमस्मबलं सर्वं, लग्ने युद्धेऽथ तादृशे / तर्कपाठ इव स्वान्तमव्युत्पन्नस्य कर्कशे // 395 // 99