________________ ततः प्रस्थापिता पित्रा, स्नेहात् साऽपि तया सह / उभे ते बहिरुद्याने, स्थिते स्तः प्रहितोऽस्म्यहम् // 336 // तद्रूतवाचा कनकचूडो हर्षविषादभाक् / कन्यावासकदानार्थ, सूरसेनं न्ययोजयत् // 337 // दध्यौ च सुमहोऽप्येष, कुमारविरहानले / सर्पिःक्षेपसमो जात इत्येतान् प्राहिणोदिह // 338 // व्यजिज्ञपन्निदं ह्येते, प्रेष्यः कनकशेखरः / रत्नवत्या वरो योग्यस्तथाऽयं नन्दिवर्धनः // 339 // भद्रौ ! यद्यपि वर्तेऽहं, युष्मद्विरहकातरः / महाप्रयोजनं मत्वा, तथाऽपीदं निगद्यते // 340 // यातं तूर्णं कुशावर्ते, राज्ञो जनयतं मुदम् / मिथोऽवियोगबुद्ध्या तदावाभ्यां स्वीकृतं वचः // 341 // दत्त्वा तातेन सैन्यौघमावां प्रस्थापितौ तदा / मया सहागतौ वैश्वानरपुण्योदयावपि // 342 // दत्तं प्रयाणकं मार्गो, लङ्क्तिश्च कियानपि / बाढं प्रणयिनं कर्तुमैच्छद् वैश्वानरोऽथ माम् मच्छ वानराऽथ माम् // 343 // वर्तते पुरमितश्च कुतश्चित्, पिण्डितैः कृतमवद्यसमूहैः / रौद्रचित्तमनभीष्टततीनां, .जन्मभूर्नरकवर्त्मविशालम् // 344 / / सन्ति तत्र भुवनत्रयताप-प्रापणैकरसिकाः खलु लोकाः / ज्वालज़ालजटिलज्वलनाभा, ये परं स्वमुपदाह्य दहन्ति // 345 // तत्र शत्रुरनवद्यमतीनां, चौरसंग्रहपरो हतनीतिः / चेतसाऽस्ति विषमः स्मयनिद्रा-घूर्णितो दुरभिसन्धिनरेन्द्रः॥ 346 // तत्प्रतापदहनस्य न तापं, केऽपि सोढुमिह सन्ति समर्थाः / नोन्मिषत्यखिलदेहभृतां य-द्धूमपुञ्जभृतमीक्षणयुग्मम् // 347 //