________________ प्रासेभ्योऽप्यतिरिच्यन्ते, तेऽस्त्यिक्ता य आशया। ' क्रोडीकरोति यानाशा, ते तु स्वप्नेऽपि दुर्लभाः // 231 // यानर्थान् बहुभिर्यलै-रिच्छेत्साधयितुं नरः। . अयत्नसिद्धा एवैते, कृते ह्याशानिमीलने // 232 // पुण्योदयोऽस्ति चेत् पुंसां, व्यथैवाशापिशाचिका। अथ पुण्योदयो नास्ति, व्यथैवाशापिशाचिका // 233 // अधीती पण्डितः प्राज्ञः, पापभीरुस्तपोधनः / स एव येन हित्वाऽऽशां, नैराश्यमुररीकृतम् // 234 // सुखं सन्तोषपीयूष-जुषां यत् स्ववशात्मनाम् / तत्पराधीनवृत्तीना-मसन्तोषवतां कुतः // 235 // सन्तोषवर्मणि व्यर्था आशानाराचपड्डयः। .. ताः कथं प्रतिरोद्धव्या इति मा स्माकुलो भव // 236 // वाक्येनैकेन तद्वच्मि, यद्वाच्यं वाक्यकोटिभिः / आशापिशाची शान्ता च, प्राप्तं च परमं पदम् // 237 // तत्सन्त्यजाऽऽशावैवश्यं, मितीकृतपरिग्रहः / भजस्व द्रव्यसाधुत्वं, यतिधर्मानुरक्तधी: // 238 // मिथ्याग्भ्यो विशिष्यन्ते, सम्यग्दर्शनिनो जनाः / तेभ्योऽपि देशविरता-मितारम्भपरिग्रहाः // 239 // यामन्यतीथिका यान्ति, गति तीव्रतपोजुषः / उपासका: सोमिलवत् तां विराद्धव्रता अपि // 40 // मासे मासे हि ये बालाः, कुशाग्रेणैव भुञ्जते / सन्तुष्टोपासकानां ते, कलां नाहन्ति षोडशीम् अप्यद्भुततपोनिष्ठ-स्तामलि: पूरणोऽपि वा।' .. सुश्रावकोचितगते-रतिहीनां गतिं ययौ . // 243 //