________________ पाता भजते करभोरूणा-मूरूनल्पमतिर्नरः / अनूरूक्रियमाणं तैः, सद्गतौ स्वं न बुध्यते // 183 // स्त्रीणां पादैहन्यमान-मात्मानं बहुमन्यते / हताशो न तु जानाति, क्षेप्यमाणमधोगतौ // 184 // दर्शनीत् स्पर्शनाच्छ्लेषाद्, या हन्ति शमजीवितम् / हेयोग्रविषनागीव, वनिता सा विवेकिभिः // 185 // इन्दुलेखेव कुटिला, सन्ध्येव क्षणरागिणी। निम्नगेव निम्नगति-वर्जनीया नितम्बिनी // 186 // न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् / न च स्वान्यहितं वामाः, पश्यन्ति मदनान्धला: // 187 // निरङ्कुशा नरे नारी, तत्करोत्यसमञ्जसम् / यत्क्रुद्धाः सिंहशार्दूलव्याला अपि न कुर्वते // 188 // दूरतस्ताः परित्याज्याः, प्रादुर्भावितदुर्मदाः / विश्वोपतापकारिण्यः, करिण्य इव योषितः // 189 // स कोऽपि स्मर्यतां मन्त्रः, स.देवः कोऽप्युपास्यताम् / न येन स्त्रीपिशाचीयं, ग्रसते शीलजीवितम् // 190 // शास्त्रेषु श्रूयते यच्च, यच्च लोकेषु गीयते / संवादयन्ति दुःशीलं, तनार्यः कामविह्वला: // 191 // संपिण्ड्येवाहिदंष्ट्राग्नि-यमजिह्मविषाकुरान् / जगज्जिघांसुना नार्यः, कृताः क्रूरेणं वेधसा // 192 // .यदि स्थिरा भवेद्विधु-त्तिष्ठन्ति यदि वायवः / दैवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः // 193 // यद्विना मन्त्रतन्त्राद्यै-र्वञ्च्यन्ते चतुरा अपि / इन्द्रजालमिदं हन्त, नारीभिः शिक्षितं कुतः // 194 // . . 93