________________ अधुना शुक्लध्यानं यत्तच्चतुर्धापि नास्ति साधूनाम् / पूर्विककेवलिविरहात्तदगम्यं तेन ते तदगुः (जगदुः) // 203 // चर्दाकदीपालिमणिप्रभाभिः किं यस्य चित्तेऽस्ति तमोऽस्तबोधम् / तदन्तकर्ती क्रियतां स्वचित्ते ज्ञान्यङ्गिनः ध्यानसुदीपिकेयम्॥ 204 // // 1 // // 2 // // 3 // // 4 // ॥चित्तशुद्धि फलम् // सदोषं भवहेतुस्तन्, निर्दोषं मोक्षदं मनः / अत एव परेऽपीत्थ-मामनन्ति मनीषिणः चित्तमेव हि संसारो, रागादिक्लेशवासितम्, तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते गुह्याद् गुह्यतरं तत्त्वं, तदिदं कथयामि ते, चित्तमेव हि सद्रलं, रक्षणीयं प्रयत्नतः यावद्धावति चित्तं ते, जवनं पवनादपि, कामेषु सुखगन्धोऽपि, तावत्तव न विद्यते . प्रतिष्ठा शौकरी विष्ठा, राज्यं चित्ते यदा रजः / भोगा रोगा इवाभान्ति, तदा ते परमं सुखम् यदा बहिर्धमं त्यक्त्वा, स्थिरीभावं प्रपद्य च, / निःस्पृहं भावि चित्तं ते, तदा ते परमं सुखम् यदा ध्यानसरो-मध्ये, निलीनं स्वगुणाम्बुजम्, / भविष्यत्यलिवच्चित्तं, तदा ते परमं सुखम् अभिरामासु रामासु, श्यामासु च मशीषु ते, यदा समं भवेच्चित्तं, तदा ते परमं सुखम् स्फुरत्कान्तिषु रत्नेषु, मृत्स्नायां च न भेदिनी, यदा ते स्यान्मनोवृत्ति, स्तदा ते परमं सुखम् 30 // 5 // // 7 // // 8 // // 9 //