________________ // 2 // // 3 // // 4 // // एकोनत्रिंशत्तमोऽध्यायः // 29 // श्री गौतम उवाच ऐन्द्री शक्तिरिवाचिन्त्य-प्रभावा मातृका ह्यसौ। यस्यां विश्वप्रकाशात्मा, परमेष्ठी प्रतिष्ठितः पूर्वलेखाद्वयं किञ्चि-दव्यक्तमक्षरं ततः / बिन्दुलेखे मातृकायां, कथं कथय नाथ ! मे श्री भगवानुवाच अव्यक्तपुर्वं व्यक्तं स्याद् ग्रन्थसन्दर्भवत् खलु / व्याप्तेरितीदं तत्सूक्ष्मं, सात्मकं भूतपञ्चकम् आदौ वायुरधोलोके, जगतः स्थितिकारणम् / तस्योर्ध्वं प्रायशो वृत्तिः, श्वासस्येवात्र नाभितः एका रेखा ततो वायो-द्वितीया पयसः परा / वायुनोन्नीयमानत्वाद्, घनस्याब्धेरिवोद्गतिः तेनैव धारा लोकेऽपि, दृश्या मेघस्य तादृशी। जलोपरिष्टात् पृथिवी, चतुरस्रा तदाकृतिः तस्यामधोग्रन्थिरूपा-नागलोकः स्फुटः स्मृतः / उच्चैरेफाकृतिः स्वर्ग-व्यापिकाग्निमुखाश्रयात् शून्याकारं नमस्तस्मात्स्वर्गाकाशप्रतिष्ठया / ततोग्निभूतरेखैका, साक्षात्तस्योर्ध्ववृत्तितः द्वितीयाकारवाच्यं स्या-त्मनोरेखोर्ध्वगामिनः। मातृकायां ततो भूत-पञ्चकं सात्मकं स्मृतम् प्रोक्तो विवाहप्रज्ञप्ता-वेवं लोकस्थितस्ततः / तदुर्ध्वं सिद्धसंस्थाना-दों नमः समुदीर्यते // 7 // // 8 // // 9 // // 10 // 210