________________ // 2 // // 3 // // 4 // // चतुर्विंशत्यऽध्यायः // 24 // श्री गौतम उवाच ऐश्वर्यवान् शिवः सिद्धो-ऽहनथ परमेश्वरः / तदा किं पारमैश्वर्य, लोकालोकव्यवस्थितम् श्री भगवानुवाच आधेयनामधारेऽपि, सूरबिम्बेऽपि सूरवत् / धनवन्नगरं नाम, सबलस्तन्निवासतः , उज्वल:कम्बलस्तिक्ता, शुण्ठी सुरभि चन्दनम् / गृहीतेऽग्निमयेङ्गारे, वाच्यःकि नाग्निसंग्रहः चित्रिते गृहदेशेपि, गृहं चित्रितमुच्यते / चन्द्रकदेशे दृष्टेपि, दृष्टश्चन्द्रो नवोदितः। समुद्रो भूः समुद्रस्य, ग्रामभूः ग्राम इत्यपि / यद्वा कणोऽपि लवणं, राशिलवणमेव हि इत्यसौ केवलब्रह्मा-धारात् सद्भिः प्रगीयते / लोकालोकोऽपि तद्रूप-स्तद्योगे तत्त्वनिश्चयात् अस्मादेव नयादर्हत्, कथितः ज्ञानवान् गुरुः / अर्हन् वा भगवान् भट्टा-रकश्च व्यपदिश्यते परम्परागमस्तेन, प्रमाणं साम्प्रतं मतः / संयतषैर्गुरुर्गोत्र-पृच्छा स्पष्टास्तदागमे स्वयं गृहीतलिङ्गत्वं, निन्द्यतेऽङ्गेपि पञ्चमे / धर्मस्य विनयो मूलं, तन्मूलं गुरुरेव सः अभ्यस्तोऽपि महामन्त्रः, स्फूरेन्नैव गुरुं विना / विनये श्रेणिको भिल्ल-स्तापसो वा निदर्शनम् // 5 // // 6 // // 7 // // 8 // // 9 // // 10 // 200