________________ ॥पञ्चमोऽध्यायः॥५॥ श्री गौतम उवाच ऐन्द्रस्वरूपं भगवन् ! तवैवाध्यक्षमीक्ष्यते / दर्शय प्रत्ययं धर्म्य, यतस्तत्रोद्यमी नरः // 2 // // 3 // // 4 // // 5 // ___ श्री भगवानुवाच ज्योतिःशास्त्रप्रत्ययो हि, यथैव ग्रहणादिना / तथा धर्मस्य वयादे-दिव्येऽस्ति प्रत्ययः स्फुटः कुमारी वा कुमारः स्यात्करावतरणादिषु / प्रयोज्य:शकुनादौ वा, स एष शीलनिश्चयः देवपूजा तीर्थयात्रा, स्वप्नः शुभफलस्तथा / साधोर्दर्शनवाक्यादिः, शुभः सद्धर्मनिश्चयः जन्मपत्रग्रहैर्धर्म-प्रत्ययः क्रियतां जनैः। दातुः पुजयितुर्यद्वा-दुष्टस्याप्यशुभैः शुभैः हिंस्रो वाऽनृतवाक् चौर-स्तथैव पारदारिकः / दुष्टोतिलोभी न क्वापि, धर्मस्य प्रत्ययस्त्वयम् दातुर्दयाभृतः सत्य-वाचः स्त्रीविरतस्य वा। भगवद्भक्तिभाजो वा, लोकैः श्लाचैव निश्चयः यथैव वातपित्तादि-विक्रिया नाडिकाविधेः / ज्ञेया मनोविधेस्तद्वत्,धर्मस्याऽन्यस्य वा स्थितिः - शान्तं ज्योतिस्तदैवेन्द्र, भासते भगवत्यहो / चराचरमये लोके, सर्वस्यापि सुखावहम् निश्चितः सर्वशास्त्रेषु, दयादानदमादिकः / धर्मविधिविधेयोय-मस्मात्कः प्रत्ययः परः // 7 // // 8 // // 9 // // 10 // 163