________________ // 477 // प्रत्याहाराद् बलं कान्तिर्दोषशान्तिश्च शान्ततः / / उत्तराधरसेवातः स्थिरता कुम्भकस्य तु .. // 474 // प्राणमपानसमानावुदानं व्यानमेव च / / प्राणायामैर्जयेत् स्थानवर्णक्रियार्थबीजवित् // 475 // प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगो हरित् / गमागमप्रयोगेण तज्जयो धारणेन वा / .. // 476 // नासादिस्थानयोगेन पूरणारेचनान्मुहुः / . गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः अपानः कृष्णरुग्मन्यापृष्ठपृष्ठान्तपाणिंगः / जेयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः // 478 // शुक्लः समानो हन्नाभिसर्वसन्धिष्ववस्थितः / जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् // 479 // रक्तो हृत्कण्ठंतालुभ्रूमध्यमूर्धनि संस्थितः / उदानो वश्यतां नेयो गत्यागतिनियोगतः // 480 // नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु / बलादुत्कृष्यमाणं च रुद्ध्वा रुद्ध्वा वशं नयेत्। // 481 // सर्वत्वग्वृत्तिको व्यानः शककार्मुकसन्निभः / जेतव्यः कुम्भकाभ्यासात्सङ्कोचप्रसृतिकमात् // 482 // प्राणापानसमानोदानव्यानेष्वेषु वायुषु / मैं पैं 3 लौँ बीजानि ध्यातव्यानि यथाकमम् // 483 // प्राबल्यं जाठरस्याग्नेर्दीर्घश्वासमरुज्जयौ / लाघवं च शरीरस्य प्राणस्य विजये भवेत् // 484 // रोहणं क्षतभङ्गादेरुदराग्नेः प्रदीपनम् / .. .. व!ऽल्पत्वं व्याधिघातः समानापानयोर्जये . // 485 // 108