________________ प्रबुध्य दोषाष्टमभागमात्रे, स्मृत्वोज्ज्वलां पञ्चनमस्कृति च / अव्यापृतोऽन्यत्र विशुद्धचेता, धर्मार्थिकां जागरिकां स कुर्यात्॥११०॥ कोऽहं का मेऽवस्था, किं च कुलं के पुनर्गुणा नियमाः / . किं न स्पृष्टं क्षेत्रं, श्रुतं न किं धर्मशास्त्रं च ? // 111 // विभाव्य चेत्थं समये दयालु-रावश्यकं शुद्धमनोऽङ्गवस्त्रः। जिनेन्द्रपूजां गुरुवंदनं च, समाचरेन्नित्यमनुक्रमेण . // 112 // शृङ्गी यथा क्षारजले पयोनिधौ, वसन्नपि स्वादुजलं पिबेत्सदा / तथैव जैनामृतवाणीमादरा-द्भजेद्गृही संसृतिमध्यगोऽपि सन्।। 113 / / द्रव्यार्जनं सद्व्यवहारशुद्ध्या, करोति सद्भोजनमादरेण / पूजादिकृत्यानि विधाय पूर्व, निजोचितं मुक्तविशेषलौल्यः॥ 114 / / कृत्वा षडावश्यकधर्मकृत्यं, करोति निद्रामुचितक्षणे च / हृदि स्मरन् पञ्चनमस्कृति स, प्रायः किलाब्रह्म विवर्जयंश्च // 115 // जिनप्रणीतार्थविदो यथार्थ-वाग्युक्तितोऽपास्तमतान्तरस्थाः / स्वकीयधर्मोज्ज्वलमार्गमग्नाः, श्रद्धालवः शुद्धधियो जयन्तु॥ 116 // निशम्य विप्रोपनयं सुधीभिः, प्रमादिसङ्गोऽपि न कार्य एव / इहोत्तरत्रापि समृद्धिहेतौ, महोज्ज्वलेऽस्मिन्निजधर्मकार्ये // 117 // जनस्य सत्काञ्चनकङ्कणद्वयी निर्मापकस्योपनयं निशम्य सः / कुदृष्टिवाक्याश्रयणे पराङ्मुखो, भवेन चेद्वञ्चनमश्नुते ध्रुवं॥ 118 // प्रत्याख्यानावरण-कषायचतुष्कक्षयोपशमभवनात् / लभते मानव एतां, देशविरतिमानविरतो वा अट्ठारसपुरिसेसु, वीसं इत्थीसु दस नपुंसेसु। . पव्वावणा अणरिहा, इय अणला आहिया सुत्ते // 120 / / बाले 1 वुड्ढे 2 नपुंसे 3 य, कीवे 4 जड्डे 5 य वाहिए 6 / तेणे 7 रायावगारी 8 य, उम्मत्ते 9 य अदंसणे 10 // 121 // 208 119 //