________________ // 108 // * // 109 // // 110 // // 111 // // 112 // // 113 // वपुषोऽत्रातिसूक्ष्मत्वाच्छीघ्रभाविक्षयत्वतः / कायकार्यासमर्थत्वात् सति कायेऽप्ययोगिता . तच्छरीराश्रयाद्ध्यानमस्तीति न विरुध्यते / निजशुद्धात्मचिद्रूपनिर्भरानन्दशालिनः आत्मानमात्मनात्मैव ध्याता ध्यायति तत्त्वतः / उपचारस्तदन्यो हि व्यवहारनयाश्रितः चिद्रूपात्ममयो योगी छुपान्त्ये समये द्रुतम् / / युगपत्क्षपयेत् कर्मप्रकृतीनां द्विसप्ततिम् / देहबन्धनसंघाता: प्रत्येकं पञ्च पञ्च च / . अङ्गोपाङ्गत्रयं चैव षट्कं संस्थानसंज्ञकम् वर्णाः पञ्च रसाः पञ्च षट्कं संहननात्मकम् / स्पर्शाष्टकं च गन्धौ द्वौ नीचानादेयदुर्भगम् तथाऽगुरुलघुत्वाख्यमुपघातोऽन्यघातता / निर्माणमपर्याप्तत्वमुच्छ्वासश्चायशस्तथा विहायोगतियुग्मं च शुभं स्थैर्यद्वयं पृथक् / . गतिर्दिव्यानुपूर्वी च प्रत्येकं च स्वरद्वयम् वेद्यमेकतरं चेति कर्मप्रकृतयः खलु / द्वासप्ततिरिमा मुक्तिपुरीद्वारार्गलोपमाः अन्त्ये ह्येकतरं वेद्यमादेयत्वं च पूर्णता / त्रसत्वं बादरत्वं च मनुष्यायुश्च सद्यशः नृगतिश्चानुपूर्वी च सौभाग्यं चोच्चगोत्रता / पञ्चाक्षत्वं तथा तीर्थकृनामेति त्रयोदश क्षयं नीत्वा स लोकान्तं तत्रैव समये व्रजेत् / लब्धसिद्धत्वपर्यायः परमेष्ठी सनातनः // 114 // // 115 // // 117 // // 118 // 18