________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // आत्मस्पन्दात्मिका सूक्ष्मा क्रिया यत्रानिवृत्तिका / तत्तृतीयं भवेच्छुक्लं सूक्ष्मक्रियानिवृत्तिकम् . बादरे काययोगेस्मिन् स्थितिं कृत्वा स्वभावतः / सूक्ष्मीकरोति वाचित्तयोगयुग्मं सबादरम् त्यक्त्वा स्थूलवपुर्योगं सूक्ष्मवाचित्तयोः स्थितिम् / कृत्वा नयति सूक्ष्मत्वं काययोगं च बादरम् स सूक्ष्मकाययोगे च स्थितिं कृत्वा पुनः क्षणम् / निग्रहं कुरुते सद्यः सूक्ष्मवाचित्तयोगयोः ततः सूक्ष्मे वपुर्योगे स्थितिं कृत्वा क्षणं हि सः / सूक्ष्मक्रियं निजात्मानं चिद्रूपं विन्दति स्वयम् छदस्थस्य यथा ध्यानं मनसः स्थैर्यमुच्यते / तथैव वपुषः स्थैर्य ध्यानं केवलिनो भवेत् शैलेशीकरणारम्भी वपुर्योगे तु सूक्ष्मके / तिष्ठन्नूास्पदं शीघ्रं योगातीवं यियासति / अस्यान्तेऽङ्गोदयच्छेदात् स्वप्रदेशघनत्वतः / . करोत्यन्त्याङ्गसंस्थानत्रिभागोनावगाहनाम् अथायोगिगुणस्थाने तिष्ठतोऽस्य जिनेशितुः / लघुपञ्चाक्षरोच्चारप्रमितैव स्थितिर्भवेत् तवानिवृत्तिशब्दान्तं समुच्छिन्नक्रियात्मकम् / ' चतुर्थं भवति ध्यानमयोगिपरमेष्ठिनः / समुच्छिना क्रिया यत्र सूक्ष्मयोगात्मिकापि हि / समुच्छित्रक्रियं प्रोक्तं तद्द्वारं मुक्तिवेश्मनः देहास्तित्वेऽप्ययोगित्वं कथं तद् घटते प्रभोः / देहाभावे तथा ध्यानं दुर्घटं घटते कथम् s6 // 102 // // 103 // // 104 // / / 105 // // 106 // // 107 //