________________ // 84 // .. // 85 // // 86 // // 87 // // 88 // // 89 // चराचरमिदं विश्वं हस्तस्थामलकोपमम् / / प्रत्यक्षं भासते तस्य केवलज्ञानभास्वतः . .. विशेषात्तीर्थकृत्कर्म येनास्त्यर्जितमूर्जितम् / तत्कर्मोदयतोऽत्रासौ स्याज्जिनेन्द्रो जगत्पतिः स सर्वातिशयैर्युक्तः सर्वामरनरैर्नतः / चिरं विजयते सर्वोत्तमं तीर्थं प्रवर्तयन् वेद्यते तीर्थकृत्कर्म तेन सद्देशनादिभिः / भूतले भव्यजीवानां प्रतिबोधादि कुर्वता उत्कर्षतोऽष्टवर्षोनपूर्वकोटी प्रमाणकम् / . कालं यावन्महीपीठे केवली विहरत्यलम् चेदायुषः स्थितियूंना सकाशाद्वैद्यकर्मणः / तदा तत्तुल्यतां कर्तुं समुद्घातं करोत्यसौ दण्डत्वं च कपाटत्वं मन्थानत्वं च पूरणम् / कुरुते सर्वलोकस्य चतुर्भिः समयैरसौ एवमात्मप्रदेशानां प्रसारणविधानतः / कर्मलेशान् समीकृत्योत्क्रमात्तस्मान्निवर्तते समुद्घातस्य तस्याद्येऽष्टमे च समये मुनिः / औदारिकाङ्गयोगः स्यात् द्विषट्सप्तमकेषु तु मिश्रौदारिकयोगी च तृतीयाद्येषु च त्रिषु / समयेष्वेककर्माङ्गधरोऽनाहारकश्च सः यः षण्मासाधिकायुष्को लभते केवलोद्गमम् / करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा न वा समुद्घातानिवृत्तोऽसौ मनोवाक्काययोगवान् / * ध्यायेद्योगनिरोधार्थं शुक्लध्यानं तृतीयकम् . // 90 // // 91 // // 92 // // 93 // . // 94 // // 95 //