________________ ततोऽसौ स्थूललोभस्य सूक्ष्मत्वं प्रापयन् क्षणात् / आरोहति मुनिः सुक्ष्मसम्परायं गुणास्पदम् . // 72 // एकादशं गुणस्थानं.क्षपकस्य भवेन्न हि / दशमात्सूक्ष्मलोभांशान् क्षपयन् द्वादशं व्रजेत् // 73 // भूत्वाथ क्षीणमोहात्मा वीतरागो महायतिः / पूर्ववद्भावसंयुक्तो द्वितीयं शुक्लमाश्रयेत् // 74 // अपृथक्त्वमविचारं सवितर्कं गुणान्वितम् / स ध्यायत्येकयोगेन शुक्लध्यानं द्वितीयकम् // 75 // निजात्मद्रव्यमेकं वा पर्यायमथवा गुणम् / निश्चलं चिन्त्यते यत्र तदेकत्वं विदुर्बुधाः // 76 // यद्व्यञ्जनार्थयोगेषु परावर्तविवर्जितम् / चिन्तनं तदविचारं स्मृतं सद्ध्यानकोविदैः / // 77 // निजशुद्धात्मनिष्ठं हि भावश्रुतावलम्बनात् / चिन्तनं क्रियते यत्र सवितर्क तदुच्यते // 78 // इत्येकत्वमविचारं सवितर्कमुदाहृतम् / / तस्मिन् समरसीभावं धत्ते स्वात्मानुभूतित: // 79 // इत्येतद्ध्यानयोगेन प्लुष्यत्कर्मेन्धनोत्करः / निद्राप्रचलयो शमुपान्त्ये कुरुते क्षणे // 80 // अन्त्ये दृष्टिचतुष्कं च दशकं ज्ञानविघ्नयोः / क्षपयित्वा मुनिः क्षीणमोह: स्यात् केवलात्मकः // 81 // एवं च क्षीणमोहान्ता त्रिषष्टिप्रकृतिस्थितिः / पञ्चाशीतिर्जरद्वस्त्रप्रायाः शेषाः सयोगिनि // 82 // भावोऽत्र क्षायिकः शुद्धः सम्यक्त्वं क्षायिकं परम् / .. क्षायिकं हि यथाख्यातचारित्रं तस्य निश्चितम् .15 // 83 //