________________ // 60 // // 61 // / // 62 / / // 63 // // 64 // // 65 // सवितर्कं सविचारं सपृथक्त्वमुदाहृतम् / . . त्रियोगयोगिनः साधोराद्यं शुक्लं सुनिर्मलम् श्रुतचिन्ता वितर्कः स्याद्विचारः संक्रमो मतः / पृथक्त्वं स्यादनेकत्वं भवत्येतत्रयात्मकम् स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् / अन्तर्जल्पो वितर्कः स्याद्यस्मिंस्तत्सवितर्कजम् जम अर्थादर्थान्तरे शब्दाच्छब्दान्तरे च संक्रमः। . योगायोगान्तरे यत्र सविचारं तदुच्यते / द्रव्याद् द्रव्यान्तरं याति गुणाद्याति गुणान्तरम् / पर्यायादन्यपर्यायं सपृथक्त्वं भवत्यदः इति त्रयात्मकं ध्यानं ध्यायन् योगी समाहितः / संप्राप्नोति परां शुद्धि सिद्धिश्रीसौख्यवर्णिकाम् यद्यपि प्रतिपात्येतदुक्तं ध्यानं प्रजायते / तथाप्यतिविशुद्धत्वादूर्ध्वस्थानं समीहते अनिवृत्तिगुणस्थानं ततः समधिगच्छति / गुणस्थानस्य तस्यैव भागेषु नवसु क्रमात् गतिः श्वाभ्री च तैस्ची द्वे तयोरानुपूर्विके / साधारणत्वमुद्योतः सूक्ष्मत्वं विकलत्रयम् एकेन्द्रियत्वमातापस्त्यानगृद्ध्यादिकत्रयम् / स्थावरत्वमिहाद्यांशे क्षीयन्ते षोडशेत्यमूः अष्टौ मध्यकषायांश्च द्वितीयेऽथ तृतीयके / षण्ढत्वं तुर्यके स्त्रीत्वं हास्यषट्कं च पञ्चमे चतुवंशेषु शेषेषु क्रमेणैवातिशुद्धितः / पुंवेदश्च ततः क्रोधो मानो माया च नश्यति / // 67 // // 68 // // 69 // // 70 // // 71 // G4