________________ // 48 // // 49 // // 50 // / / 51 // // 52 // // 53 // अनिबद्धायुषः प्रान्त्यदेहिनो लघुकर्मणः / असंयतगुणस्थाने नरकायुः क्षयं व्रजेत् तिर्यगायुः क्षयं याति. गुणस्थाने तु पञ्चमे / / सप्तमे त्रिदशायुश्च दृग्मोहस्यापि सप्तकम् दशैताः प्रकृती: साधुः क्षयं नीत्वा विशुद्धधीः / धर्मध्याने कृताभ्यासः प्राप्नोति स्थानमष्टमम् तत्राष्टमे गुणस्थाने शुक्लसद्ध्यानमादिमम् / ध्यातुं प्रक्रमते साधुराद्यसंहननान्वितः निष्पकम्पं विधायाथ दृढं पर्यङ्कमासनम् / नासाग्रदत्तसन्नेत्रः किञ्चिदुन्मीलितेक्षणः विकल्पवागुराजालाइरोत्सारितमानसः / संसारच्छेदनोत्साहों योगीन्द्रो ध्यातुमर्हति अपानद्वारमार्गेण निःसरन्तं यथेच्छया / निरुन्ध्योर्ध्वप्रचाराप्ति प्रापयत्यनिलं मुनिः द्वादशाङ्गुलपर्यन्तं समाकृष्य समीरणम् / . पूरयत्यतियत्नेन पूरकध्यानयोगतः निःसार्यते ततो यत्नान्नाभिपद्मोदराच्छनैः / ... योगिना योगसामर्थ्याद्रेचकाख्यः प्रभञ्जनः कुम्भवत्कुम्भकं योगी श्वसनं नाभिपङ्कजे / ' कुम्भकध्यानयोगेन सुस्थिरं कुरुते क्षणम् इत्येवं गन्धवाहानामाकुञ्चनविनिर्गमौ / संसाध्य निश्चलं धत्ते चित्तमेकाग्रचिन्तने प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता / क्षपकस्य यतः श्रेण्यारोहे भावो हि कारणम् 3 // 54 // // 55 // // 56 // // 57 // // 58 // // 59 // G3