________________ // 36 // .. // 37 // // 38 // // 39 // // 40 // // 41 // इत्येतस्मिन् गुणस्थाने नो सन्त्यावश्यकानि षट् / सततं ध्यानसद्योगाच्छुद्धिः स्वाभाविकी यतः अपूर्वात्मगुणाप्तित्वादपूर्वकरणं मतम् / भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदम् अस्तित्वात् सूक्ष्मलोभस्य भवेत् सूक्ष्मकषायकम् / शमनाच्छान्तमोहं स्यात्क्षपणात्क्षीणमोहकम् तत्रापूर्वगुणस्थानाद्यंशादेवाधिरोहति / शमको हि शमश्रेणी क्षपकः क्षपकाक्लीम् पूर्वज्ञः शुद्धिमान् युक्तो ह्याद्यैः संहननैस्त्रिभिः / सन्ध्यायन्नाद्यशुक्लांशं स्वां श्रेणी शमकः श्रयेत् श्रेण्यारूढः कृते कालेऽहमिन्द्रेष्वेव गच्छति / पुष्टायुस्तूपशान्तान्तं नयेच्चारित्रमोहनम् अपूर्वादिद्वयैकैकगुणेषु शमकः क्रमात् / करोति विंशतेः शान्तिं लोभाणुत्वं च तच्छमम् शान्तदृग्वृत्तमोहत्वादत्रौपशमिकाभिधे / स्यातां सम्यक्त्वचारित्रे भावश्चोपशमात्मकः वृत्तमोहोदयं प्राप्योपशमी च्यवते ततः / अधः कृतमलं तोयं पुनर्मालिन्यमश्नुते अपूर्वाद्यास्त्रयोऽप्यूर्ध्वमेकं यान्ति शमोद्यताः / चत्वारोऽपि च्युतावाद्यं सप्तमं चान्त्यदेहिनः आसंसारं चतुर्वारमेव स्याच्छमनावली / जीवस्यैकभवे वारद्धयं स्याद्यदि जायते अतो वक्ष्ये समासेन क्षपकश्रेणिलक्षणम् / योगी कर्मक्षयं कर्तुं यामारुह्य प्रवर्तते // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // 2