________________ // 46 // // 47 // // 48 // . // 49 // // 50 // // 51 // पापं हिंसादिसम्भूतं, ते तु रौद्रातभावतः / . स कषायैः कृतोत्कर्ष-स्ततस्ते मुख्यकारणम् द्विचत्वारिंशत्साताद्याः, पुण्यप्रकृतयो मताः / असाताद्या व्यशीतिस्तु, पापप्रकृतयः स्मृताः जीवसरस्तमोनीर-पूरणे श्रोतसा समः / वाक्कायमनसां कर्म-योगो विश्रुत आश्रवः शब्दरूपरसस्पर्श-गन्धेष्वासक्तिवर्जनात् / मनस्संवरणाच्चैव, संवरः सम्प्रकीर्तितः' प्रायश्चित्तादिभिः षड्भिः, षड्भिश्चानशनादिभिः / कीर्तिताऽऽभ्यन्तरैर्बादै-स्तपोभिः कर्मनिर्जरा पञ्चप्रकारं मिथ्यात्वं, कषायाः पञ्चविंशतिः / योगाः पञ्चदश तथाऽविरतिः सूर्यसम्मिता सप्तपञ्चाशदित्येते, कर्मबन्धस्य हेतवः / प्रकृतिस्थित्यनुभाव-प्रदेशैः सं चतुर्विधः पञ्चधा ज्ञानावरणं, नवधा दर्शनावृतिः / वेदनीयं द्विधा मोह-स्त्वष्टाविंशतिधा मतः आयुश्चतुर्विधं नाम, स्याच्छतं त्रिभिरुत्तरम् / द्विप्रकारं पुनर्गोत्र-मन्तरायस्तु पञ्चधा अष्टपञ्चाशता युक्तं, शतमित्यष्टकर्मणाम् / भूरिकर्मनिदानैस्तत्, प्रकृतिर्बहुधा मता स्थितिभावप्रदेशैः सा, तीव्रा मन्दाऽथ मध्यमा / कषायैः स्थितिपाकैश्च, षड्लेश्यानां समुद्भवः तारतम्येन मन्तव्याः, कृष्णा नीला कपिञ्जला / पीता पद्मप्रभा शुक्ला, षडेताः कर्मबन्धिकाः // 52 // // 53 // // 54 // // 55 // // 56 // // 57 // 44