________________ // 34 // // 35 // // 36 // // 37 // = // 38 // = // 39 // एकादिचतुरक्षान्ताः, पञ्चाक्षा अप्यगर्भजाः / जीवाः सम्मूछेजा ज्ञेया, मनःपर्याप्तिवर्जिताः / सूक्ष्मस्थूलैकखा जीवा, द्वित्यक्षाश्चतुरिन्द्रियाः / सङ्ग्यज्ञाः पञ्चखाः पर्या-सेतराभ्यां चतुर्दश द्रव्यं क्रोधादयो योगो-पयोगी ज्ञानदर्शने / चारित्रं वीर्यमित्येव-मात्मनो मार्गणाऽष्टधा गत्यक्षयोगवेदाङ्ग-कषायज्ञानसंयमैः / हगलेश्याभव्यसम्यक्त्व-सञ्ज्ञाहारैश्च मार्गणाः गतीन्द्रियादयश्चात्र, चतुष्पञ्चादिभेदतः / द्विषष्टिभेदा विज्ञेयाः भिद्यमानाः पृथक्पृथक् मिथ्या सास्वादनं मिश्रा-विरतौ देशसंयतः / प्रमत्ताप्रमत्तापूर्व-करणाश्चानिवृत्तिकः . सूक्ष्मसम्परायस्तथो-पशान्तक्षीणमोहको / सयोगायोगिनौ ज्ञेया-श्चतुर्दश गुणाः क्रमात् .. धर्माधर्मनभ:काल-पुद्गलाश्चेति पञ्चधा / अजीवास्ते पुनर्भेदै-भिद्यमानाश्चतुर्दश धर्माद् गतिः स्थितिमता-मंधर्मः स्थितिकारणम् / आकाशमवकाशाय, कालस्तु समयादिकः स्थूलसूक्ष्मत्ववर्णाद्याः, शब्दसंस्थानतामसाः / बन्धभेदातपोद्द्योताः, सुखदुःखोच्छ्वसनादयः वाङ्मनः कायकर्माणि, जीवितं जननादयः / पुद्गलोपग्रहादेव, कार्यभेदा भवन्त्यमी पुण्यं स्वपरोपकारात्, प्राणिसम्प्रीणनेन सः / क्षान्त्यादिभिर्गुणैस्तच्च, तदमी मूलहेतवः = // 40 // = // 41 // = // 42 // // 43 // = // 44 // = // 45 // 43