________________ // 22 // // 23 // / / 24 // // 25 // // 26 // // 27 // दानशीलतपोभाव-भावकोऽतिथिपूजकः / निष्कषायः सदाचारः, श्राद्धः स्यात्तदुपासकः परोपकरणाद्धर्मः, सबुद्ध्याऽद्धासमेधते / सा सदागमसङ्गत्या, तत्तामश्रान्तमाश्रयेत् हेयोपादेयकर्त्तव्य-सम्यग्ज्ञाननिदानभूः / बृंहकः सर्वभावानां, विवेकः समुदाहृतः भावनं भवभावानां, तन्निदाने विरागिता / मोक्षाय मानसोद्योगः, संवेगो वै स गीयते जीवाजीवास्तथा पुण्यं, पापमाश्रवसंवरौ / निर्जराबन्धमोक्षौ च ,पदार्था नव संस्मृताः अव्यक्तो व्यक्तचैतन्यः, सङ्ख्यातीतप्रदेशवान् / जीव: स्वकर्मणां भोक्ता, वपुर्व्यापितया स्थितः व्यवहाराव्यवहाराः, सझ्यसञ्ज्ञाश्चराश्चराः / गर्भजेतरभेदाश्च, जीवा इत्थं द्विधा स्थिताः स्त्रीपुन्नपुंसकैदै-स्त्रिधा जीवाः प्रकीर्तिताः / चतुश्चारैश्चतुर्भेदाः, पञ्चभिः खैश्च पञ्चधा / भूम्यम्भोवह्नयो वात-वानस्पत्यत्रसाश्च षट् / चतुरशीतिलक्षाणि, जायन्ते योनिभेदतः व्यक्ताश्चिद्रूपिणो युक्ता, भीसङ्गाहारमैथुनैः / एकेन्द्रियादयो जीवाः, संसारे व्यवहारिणः निगोदा बादराः सूक्ष्मा, असङ्ख्या लोकवर्तिनः / . अनन्तप्राणिनः सूक्ष्मा, एव चाव्यवहारिणः ससञ्ज्ञा नारका दिव्याः, पञ्चाक्षा गर्भसम्भवाः / शेषाः सर्वेऽपि निस्संज्ञा-स्तिर्यञ्चो मनुजास्तथा // 28 // // 29 // // 30 // // 31 // पान नागनदारिणः // 32 // // 33 //