________________ दुत्थिअसमत्थअत्थिअ - जणपत्थिअअत्थसत्थसुसमत्थो / इत्थं थुओ लहुजणं, तित्थयरो कुणउ सु (स) पयत्थं // 24 // * अज्ञातकर्तृकम् . // समवसरण-स्तोत्रम् // सत्केवलज्ञानमहाप्रभाभिः प्रकाशिताशेषजगत्स्वरूपम् / स्तवीमि तं वीरजिनं सुरौघा यद्देशनासद्मनि चक्रुरेवम् // 1 // आयोजनं भूमितलस्य सन्मार्जनं व्यधुः वायुकुमारदेवाः / तस्यैव गन्धोदकवर्षणेन, रजःप्रशान्तिं विदधुश्च मेघाः // 2 // सरत्नमाणिक्यशिलाभिरिद्धं, विधाय तत्राऽचलपीठबन्धनम् / किरन्ति पुष्पाणि विचित्रवर्णान्यस्योपरि व्यन्तरराजवर्याः // 3 // वैमानिका ज्यौतिषिकाश्च तत्र सद्भक्तिभाजो भुवनाधिपाश्च / वप्रत्रयं रत्नसुवर्णरूप्यमयं विचक्रुर्घतिभासिताऽऽशम् // 4 // आभ्यन्तरे रत्नमये विशाले, साले विरेजुः कपिशीर्षकाणि / / सुरैः प्रक्लृप्तानि मणिमयानि, सद्दर्पणाः किं ननु धर्मलक्ष्म्याः 5. विमध्यमे रत्नमयानि तानि हैमानि चामूनि बहिस्थवप्रे / गव्यूतमेकं धनुषां शतानि, षडेव तेषामियमन्तरुर्वी // 6 // बाहुल्यमेषां धनुषां त्रयस्त्रिंशदेक[श्च]हस्तोऽङ्गुलकानि चाष्टौ / लसच्चतुर्दारविराजितानां तंथोच्चता पञ्चधनुःशतानि // 7 // भूमेः सहस्राणि दशैव गत्वा, सोपानकानां प्रथमोऽत्र वप्रः। धनूंषि पञ्चाशदतः समा भूः सोपानकानां हि ततोऽयुताद्धे // 8 // द्वितीयवप्रोऽत्र तदन्तरेऽभूत्, विधिस्तु पूर्वोदित एव सर्वः / ततस्तृतीयोऽपि बभूव वप्रस्तदन्तरं वा मणिपीठबन्धात् // 9 // इत्थं सहस्रा दश पञ्च पञ्च, क्रमेण शालत्रयसङ्गतानाम् / सोपानकानां प्रमितिस्त्वमीषां, करैकमानोन्नति-विस्तराभ्याम्॥ 10 // ર૦૧