________________ प्रमाणमेतत् सकलं विबोध्यं निजैनिजैरेव करैर्जिनानाम् / देहादिवैचित्र्यत एव तेषां, न चान्यथा सङ्गतिमङ्गतीदम् // 11 // भूमितलादूर्ध्वमथार्धयुक्तगव्यूतयुग्मं परितोऽधिरुह्य / तृतीयवप्रे बहुमध्यदेशे, ज्योतिर्जटलं मणिपीठमासीत् // 12 // विष्कम्भतश्चापशतद्वयं तदौन्नत्यत: श्रीजिनदेहमानम् / विरेजुरस्योपरि चारुसिंहासनानि चत्वारि मणिमयानि // 13 // मणिमयच्छन्दकसङ्गतानि चाऽशोकवृक्षं परितः स्थितानि / छत्रत्रयेणोर्ध्वगतेन चन्द्रप्रभासमानातिना युतानि // 14 // सुपर्वसञ्चारितपङ्कजेषु, न्यासं दधानः क्रमपङ्कजानाम् / सिंहासनं स्वामिवरोऽथ भेजे, पूर्वामुखं पूर्वगिरि यथांशुः // 15 // ततो व्यधीयन्त च शेषदिक्षु सद्व्यन्तरैस्तत् प्रतिरूपकाणि / चतुर्मुखस्तैर्भगवान् विरेजे, चतुर्विधं धर्ममिवोपदेष्टुम् // 16 // तत् पार्श्वयोर्यक्षवरा बभूवुः करे धरन्तो वरचामराणि / अभ्रंलिहाः स्वामिपुरो विरेजुर्महाध्वजा रत्नमयोच्चदण्डाः // 17 // पुरो जिनेन्द्रस्य च धर्मचक्रचतुष्टयी चारुरुचिर्बभासे / प्रख्यापयन्ती भविनां मनस्सु सद्धर्मचक्रित्वमपूर्वमस्य // 18 // आग्नेयका मुख्य विदिक्षु तिस्रः, प्रत्येकमस्थुश्च सभाः क्रमेण / सुसाधवः कल्पसुराङ्गनाश्च, साध्व्यश्च धर्मश्रवणैक-निष्णाः 19 ज्योतिःपतीनां भुवनाधिपानां, सद्व्यन्तराणां च विलासवत्यः / त्रयोऽपि ते देववरास्ततोऽपि, वैमानिका मर्त्यवराः स्त्रियश्च 20 तिर्यग्वराः सिंहमृगाहिबभ्रु-मुख्याः प्रशान्ता द्वितीयेऽथ वप्रे / संत्यक्तवैरा भगवद्वचांसि, पपुः कणेहत्य कृतोर्ध्ववक्त्राः // 21 // यानानि वप्रे तृतीये बभूवु नियन्त्रणा नो विकथाभयं न / न मत्सरस्तत्र परस्परेणाऽभवज्जिनेन्द्रस्योत्कटप्रभावः // 22 // 22