________________ // 384 // // 385 // // 386 // // 387 // // 388 // // 389 // सान्द्रापि न स्थैर्यवती, प्रीतिः पारिप्लवात्मनाम् / अदभ्राऽपि किमभ्राणां, छाया न क्षणनश्वरी ? नीचानामप्यवष्टम्भः, सापदां महतां हितः / अपि भग्नाः कार्यसृजो, जतुना संहिता घटाः उद्धता अलमुद्धर्तु,-मौद्धत्यं दुरितात्मनाम् / क्षाराणामेव सामर्थ्य, मलनाशाय वाससाम् सङ्गताः कलये नूनं, कठिनाः कठिनात्मभिः / अग्निरुत्पद्यते सद्यः, संयोगे ग्रावलोहयोः यत्र तिष्ठेत् कठोरात्मा, तत्राऽनर्थाय भूयसे / मध्येघण्टं स्थिता लाला, घण्ट हन्ति समन्ततः / गुणहारिणि मन्देऽपि, न्यस्यते गुरुणा स्वधीः / बिम्बन्यासः सुखाधेयः, पीवरेऽपि हि चीवरे मध्यस्थः प्रतिभूः क्लृप्तः, स्याद्धिताय द्वयोरपि / . देहल्यां निहितो दीपो, बहिर्मध्ये च तेजसे . गुणस्तनोति स्वल्पोऽपि, मानं श्यामात्मनामपि / मधुरेण स्वरेणाऽपि, काम्यन्ते किं न कोकिला: ? तुङ्गेष्वपि विना दोषै,-र्न गुणाः स्थैर्यधारिणः / वालैरपि विना मौलौ, पुष्पाणां किमवस्थितिः ? प्रस्तावोचितवाक्येन, कटुवागपि मान्यते / . . प्रस्थितैर्वामतः कूजन्, यत् काकः कीर्त्यतेऽनघः भवेत्तेजस्विनां प्रायो, गुणस्तेजस्विनिर्मितः / दीपे चक्षुष्मतामेव, वस्तुजातं प्रकाश्यते (०शते) अनर्थं तनुते तुङ्गो, हसन् मनसि निष्ठुरः / तेजःस्तोमं वहन् वक्त्रे, न कुन्तः किमु मृत्यवे? 40 / / 390 // // 391 // // 392 // // 393 // // 394 // // 395 //