________________ नादबिन्दुकलातीतं परमात्मकलायुतम् / द्वादशान्तं सदा ध्यायेत् सदानन्दैकमन्दिरम् // 131 // रुद्ध्वा योगी कषायप्रसरमतिचलानिन्द्रियान् स्वानियम्य त्यक्त्वा वा सङ्गमन्यं परमपदसुखप्राप्तये बद्धबुद्धिः / कृत्वा चित्तं स्थिरं स्वं शमरसकलितं सत्त्वमालम्ब्य बाढम् ध्यानं ध्यातुं यतेत प्रतिदिनममलं शुद्धधर्मा वितन्द्रः // 132 // छित्वा संसृतिपाशमन्तरबलं जित्वाथ मोहादिकम् / दीक्षां मोक्षकरीं प्रपद्य स बुधः पार्श्वे प्रभोरुद्यतः / ब्रह्मज्ञानलयेन केवलमतो ज्ञानं समुत्पाद्य च / पापान्मुक्तिपदं सदा सुखमयं क्षीणाष्टकर्मा क्रमात् व्यापारच्छिन्नसंसार: संयोगो मुक्तियोजकः / विभक्तः संयमाद्यङ्गः सोऽपि स्यादष्टधा पुनः // 134 // अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्गता / इत्येतानि व्रतान्यत्र संयमः पञ्चधा स्मृतः // 135 // शौचं तपश्च संतोषः स्वाध्यायो देवतास्मृतिः। नियमः पञ्चधा ज्ञेयः करणं पुनरासनम् // 136 // श्वासप्रश्वासयोः स्थैर्य प्राणायामो भवेत्पुनः / प्रत्याहारो विषयेभ्य इन्द्रियाणां समाहितम् // 137 // समाधिर्भवहन्तृणां वाक्यानामर्थचिन्तनम्। * स्थैर्यहेतोर्भवेद्ध्येये धारणा चित्तयोजना // 138 // स्थूले वा यदि वा सूक्ष्मे साकारे वा निराकृते / ध्यानं ध्यायेत् स्थिरं चित्तं एकप्रतययसंगते // 139 // एवं योगो भवेद्योगैरष्टधा संयमादिभिः / सर्वातिशयसंपन्नं ध्यानं कल्याणकारणम् // 140 // 353