________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // परब्रह्मैव तद्ज्ञेयं सिद्ध्यर्थं विबुधैः सदा। स्वप्नार्थः कथितः प्राज्ञ ! योगयुक्तया तवाग्रतः न किञ्चिच्चिन्तयेच्चित्तमुन्मनीभावसंगतम् / निराकारं महासूक्ष्मं महाध्यानं तदुच्यते पिण्डपदरूपभेदाः शुक्लध्यानस्य ये पुरा / उक्तास्तस्यैव रोहार्थं प्रासादे पदिकं यथा कीदृशोऽस्मि क्व गन्तास्मि कं करोमि स्मरामि किम् / इति योगी न जानाति लयलीनो निरञ्जने आच्छादिते ज्ञाननेत्रे विषयैः पटलोपमैः। ध्यानं सिद्धिपुरीद्वारं नैव पश्यन्ति जन्तवः पञ्चभिश्चञ्चलैरिष्टपृथविषयनामभिः / . अनिरुद्धैरिन्द्रियाद्यैर्ध्यानी व्यावर्त्तते मनः / शमं नीतेषु तेष्वत्र कषायेष्विन्द्रियेष्वपि / ध्यानस्थैर्यकृते चित्तं कार्यं संकल्पवर्जितम् ध्यानं मन:समायुक्तं मनस्तत्र चलाचलम् / वश्यं येन कृतं तस्य भवेद्वश्यं जगत्त्रयम् यच्छुभं कर्मकर्तृत्वं तत्कुर्यान्मनसा सह / मनस्तुल्यं फलं यस्मात् शून्ये शून्यं भवेत्पुनः कृताभ्यासो यथा धन्वी लक्ष्यं विध्यति तन्मनाः / एकचित्तस्तथा योगी वाञ्छितं कर्म साधयेत् तस्मादप्युत्तमं सारं पवित्रं कर्मनाशनम् / सर्वधर्मोत्तरं चित्तं कार्यं शमरसात्मकम् जन्मलक्षव्रतैरुग्रैर्यन्नैव क्षीयते क्वचित् / मनः शमरसे मग्नं तत्कर्म क्षपयेत् क्षणात् // 78 // // 79 // // 80 // // 81 // // 82 // // 8 // 358