________________ // 108 // // 109 // // 110 // . // 111 // .. // 112 // लभन्ते सुभटाः संपद्-भरं व्यङ्गितविग्रहाः / / विद्धयोः कर्णयोरेव, यत्स्वर्णमपि(णि)कुण्डले . गुणवद्गौरवं याति, दोषो ज्योतिष्मतां सखे ! / दृशां स्फारासु तारासु, श्यामिका शस्यते न कैः? उत्तुङ्गेषु रुषं कुर्वन्, भवेत् स्वयमनर्थमाक् / शरभेण मृतिर्लेभे, कुपितेन घनोपरि क्वचित् पिधत्ते मन्दोऽपि, प्रभाभाजामपि प्रभाम् / न किं पिदधिरे धूम,-योनिना भानुभानवः ? सखे ! श्रयति सौभाग्य,-मशुद्धेष्वेव रागवान् / सीमन्तिनीनां सीमन्ते, सिन्दूरं शुशुभे न किम् ? गुणे गतेऽपि केषाञ्चि,-न यशो याति जातुचित् / न किं मुण्डितमुण्डाऽपि, वधूः सीमन्तिनी मता ? तुङ्गेष्वतुष्टस्तुच्छात्मा, नानर्थं कर्तुमीश्वरः / / करोति शशकः किञ्चिद्, भूधरेषु विरोधवान् ? . किं करोति पिता श्रीमान्, यद्यभाग्यभृतः सुतः ? / शङ्खो भिक्षामटन् दृष्टो, रत्नाकरभवोऽपि यत् प्रस्तावे पाप्मनां पापाः, प्रजायन्ते प्रकाशिनः / द्योतन्ते खलु खद्योताः, तमिस्रे सति सर्वतः . हृद्यहृद्योऽपि सर्वत्र, मान्यो मधुरवाग् भवेत् / वर्यस्तूर्येषु शङ्खोऽन्त,-श्चक्रोऽपि(-र्वक्रोऽपि?) शुभगीरिति गुणा गौरवमायान्ति, तद्विदां पुरतः सखे ! / काम्यन्ते कोविदैरेव, काव्यानां कठिनोक्तयः दूरतः परिगच्छन्ति, शुद्धात्मानस्तिरस्कृताः / पातिताः प्रतिकुर्वन्ति, नोद्गमं दशनाः खलु 26 // 114 // // 115 // // 116 // // 117 // // 118 // // 119 //