________________ यद्वाञ्छितं विश्वतलेऽस्ति लोकाः, पुण्येन तत्केवलमाप्यते वै। पापानि पापागमकारणानि, त्यक्त्वा सुखं पुण्यमिहार्जयन्तु // 298 // स्वस्वत्वरहितं यच्च दीयते दानमुच्यते / तत्रैव तुर्यसंज्ञीया विभक्तिः शाब्दिकक्रमः // 299 // दानोपमा धिया बाह्या दानं सर्वार्थसाधनम् / न दानेन समं पुण्यं न दानेन समं तपः // 300 // दीयते दीयतां देयं दत्तं दास्यति यः पुमान् / अनुमोदनमाधत्ते तत्समो नास्ति पुण्यभाक् * // 301 // . तस्यैव सफलञ्जन्म जननी जनकस्तथा। जीवितं तत्कुलश्चापि दानार्थी खलु यः पुमान् // 302 // रिपवो जन्तवः क्रूराः शठा धूर्ता वराङ्गना / दानदातुश्च मित्राणि भवन्ति पार्श्वगा इव // 303 // पुत्रपौत्रादिसौख्यानि भोगाः पञ्चविधास्तथा। ऋद्धयः सिद्धयो लोके प्राप्यन्ते दानिभिर्बुवम् // 304 // काष्ठान्तव्यापिनी कीर्तिः कौबेर्यः खलु सम्पदः / नाकनिर्वाणपद्मा च जायन्ते दानतस्तथा . // 305 // श्रीश्रेयांसकुमारोऽपि दानेन लब्धकीर्तिमान् / अन्येऽपि बहवो जाता दानेन ख्यातकीर्तयः // 306 // अस्मिन्परत्र सुखसन्ततिकामुकाश्चेद् दानं ददध्वमनुवासरमुच्चवृत्त्या / दानाप्तकीर्तितरणीमधिगम्य भूयः शान्ताः प्रयान्तु सदनं निरुपाधिरम्यम् // 307 // यावज्जीवञ्च यैर्भव्यैः शीलमाकलितं शुभम् / .. परितः सिद्धयस्तेषां मानता च पदे पदे // 308 // 020