________________ - // 4 // // 6 // प्रायश्चित्तं विनयसहितं व्यावृतिः कृत्यजाते, . सस्वाध्याया शमसुखरसाद्ध्यानमार्गप्रवृत्तिः / व्युत्सर्गोऽपि प्रहतकुगतिः सर्वसावद्यजाते कार्यं प्रोक्तं तप इदमयाभ्यन्तरं मुक्तिहेतोः यद्रे यद्राराध्यं यच्च दूरतरस्थितम् / तत्सर्वं तपसः साध्यं, तपो हि दुरतिक्रमम् स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चान्द्रनेनानलेन, सौवर्णैर्लाङ्गलाणैर्विलिखति वसुधामर्कतूलस्य हेतोः / छित्त्वा कर्पूरखण्डं वृतिमिह कुरुते कोद्रवाणां समन्ता दायातः कर्मभूमौ न चरति विपुलं यस्तपो मन्दभाग्यः तन्नास्ति वस्तु भुवने, तपसा यन्न सिध्यति / अथवा निष्फलो दृष्टः, क्वापि किं कल्पपादपः ? कर्मारण्यदवानलोऽभिलषिते सत्कामधेनूपमं, दुष्टारिष्ठविनाशनं गुणकरं सौभाग्यसंवर्द्धनम् / . श्रीमन्मुक्तिनरेशशुद्धपदवीसम्पादने प्रत्यलं, शान्तं कान्तमसङ्गमाचर तपः शक्त्या जिनेन्द्रोदितम् / चेष्टां दर्गतिकारिणीं विधुनुते वाक्कायचित्ताश्रयं, वैराग्य भवसंततिक्षयकरं पुष्णाति तत्त्वे रतिम् / जीवं कारयति श्रुतं जनयति क्रोधादि उन्मूलयेत् नान्यत्तत्तपसामतः समधिकं दक्षः क्षये कर्मणाम् स्निग्धाहारनिषेवणादहरहर्माहोऽधिकं वर्द्धते, अत्यन्तं तपसापि खिन्नवपुषा सीदन्ति धाः क्रियाः / तस्मान्मोहविनाशकारि वपुषो ग्लानिपटिष्ठं न यत्, स्वं सामर्थ्यमवेक्ष्य दुर्गतिभिदे कार्यं तपस्तादृशम् // 7 // // 8 // 8 // // // 9 // // 10 // 278