________________ // 7 // विषीदच्चैत्यानां कुलगणगुरुग्लानवपुषां, कृतं सर्वं कृत्यं जिनपतिमतं साधुविदितम् / प्रमादाद्रिं हत्वा शिवपुरपथोच्छेदकमहो, अखण्डं यैः शीलं धृतमपमलं मोहविकलैः शास्त्राभ्यासो भावना तीर्थसेवा, सत्सामग्री प्रार्थना ध्यानमार्गः / पार्श्वस्थानां वर्जनं साधुभक्तिः, शीलस्यैतद्रक्षणार्थं समस्तम् // 8 // शश्वत्पञ्चमहाव्रताम्बुनिचितो जीवाद्रिरक्षाकुलो, दुर्गस्तीव्रपरीषहोपसहनात् प्रेक्षत्तपोवाडवः / शीलाम्भोधिरनाकुलेन मनसा नो यावदासेवितस्तावत्किं शिवसौख्यरत्नममलं संप्राप्यते प्राणिभिः ? दानेन भोगानाप्नोति, यत्र यत्रोपपद्यते / शीलेन भोगसारं च, निर्वाणं चाधिगच्छति // 10 // // 9 // // 1 // 11 // तपोऽष्टकम् / / अशन प्राय यद्रे स्थाल्यां तन्नास्ति कर्म च / चेष्टा दुःस्निग्ध यद्येता, एतत् तापसमष्टकम् अशनमखिलैर्मुक्तं दोषैस्त्रिकोटिविशोधितं, सुकृतनिरतो भुञ्जानोऽपि क्षमाभृदुपोषितः। . तदपि मनसः शुद्धेहेतोरुपोषितमिष्यते, * सति निजबले तीर्थस्यापि प्रभावनहेतवे | अशनविरहो न्यौनोदर्यं स्ववृत्तिविभागता, रसपरिहति: कायक्लेशः सदा निभृताङ्गताः / य इति विमलं धत्ते बाह्यं तपः शुभसंयम, न भवति भवाम्भोधौ प्राणी स कर्मपरिक्षयात् 207 // 2 // // 3 //