________________ // 7 // बुद्धो बाऽलं कृपालुः प्रकटितभुवनो भास्करः पावको वा, रागाद्यैर्यो न दोषैः कलुषितहृदयस्तं नमस्यामि देवम् स पूज्यः स ध्येयः स च भवति वन्द्यः स शरणं, स भर्ती मन्तव्यः स हि समधिगम्यः सुकृतिभिः / न यस्मिन्न ङ्गे वसति वनिता यस्य च करे, करालं नो शस्त्रं न भवति विकारः क्वचिदपि निसाधारणगुणवन-देवो यदि भवति सर्वसत्त्वेभ्यः / शक्तः संसारार्णव-पतितानामुध्धृतौ स इह // 8 // // 9 // 2 // पूजाष्टकम् // . नामापि ये च गन्धैः पूजा जिनपूजनं च सौभाग्यम् / संसाराम्भोधिगन्धै-श्चाविति पूजाष्टकं कथितम् // 1 // नामापि नाम जगदेकगुरोर्जिनस्य, क्लेशापहं भवति भक्तियुजो जनस्य। किन्तूल्लसद्विपुलसत्पुलकाञ्चिताङ्गैः, पर्याप्तसर्वविधिना विहिता सपर्या ये चक्रिरे मलयजस्य विलेपनानि, गात्रे जिनस्य घनसारविमिश्रितानि / आविर्भवत्सहजगन्धसुगन्धिगात्रा-स्ते, मानवा मृगदृशां सुभगा भवन्ति गन्धैर्गन्धमनोरमैः परिमलाकृष्टालिमालाविलै. दिव्यैः कौसुमदामभिः सुधवलैः साक्षात्कृतैरक्षतैः / दीपैधूपयुतैः सुभाग्यभुजिभिः श्लाघ्यैः फलैरम्बुभिः, पूजामष्टविधां जिनस्य जन ! हे कृत्वा शुभान्यर्जय पूजा जगद्गुरूणामनन्तभवजनितपातकं हरति / दिनकरकरसंततिरिव, जगतां संतमससंतानम् जिनपूजनं जनानां, जनयत्येकमपि सम्पदः सकलाः। / जलमिव जलदविमुक्तं, काले शस्यश्रियो विपुलाः // 6 // // 4 // . // 5 // 193