________________ // 1 // ' // 2 // पू.लक्ष्मीचन्द्रजीविरचितानि ॥सुभाषिताष्टकानि // 1 // सर्वज्ञाष्टकम् // श्रीपद्मदेवसूरिभि-रुन्मीलितलोचनो लक्ष्मीचन्द्रः। रचयति पूर्वजविरचित-सुभाषितोल्लिङ्गनं श्लोकैः श्रीसर्वज्ञाष्टकं यथा-क्षुत्तृष्णा करकलिता भवय संसार न रोद्रमर्हन् च / सुतनुसपूज्यो निःसाधा इति देवाष्टकं जयति // 1 // क्षुत्तृष्णाभयरोषरागजननव्यामोहचिन्ताजरा, खेदस्वेदविषादवञ्चचनमदा रुक्शोकनिद्रारतिः / / संसारोदरवर्तिनामसुमतामेष स्वभावस्ततो, नैवं यस्य चराचरस्य जगतः स्वामी भवेद्देवता करकलितामलकीफ़ल-सकलत्रैलोक्यकलितपरमार्थम् / विश्वक्लेशविहीनं, तमाप्तमाहुर्जिनं मुनयः // 3 // भवबीजाङ्कुरजनना, रागाद्याः क्षयमुपागता यस्य / ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै यः संसारविकारदूरवसतिर्विश्वोपकारस्फुरत्कारुण्यामृतसागरो गुणनिधिर्विध्वस्तदोषोदयः / निर्वातस्तिमिराणुराशिनिहितक्षोभोर्मिशान्तक्रियः, कल्याणैकनिकेतनं विजयते देवाधिदेवो जिनः न रौद्रं यद्वक्त्रं न च कहकहध्वानहसितं, न मुण्डो रुण्डाली न च निकृतवेष: क्वचिदपि / प्रसन्नात्मा नित्यं प्रकृतिरमणीयाकृतिरसौ, प्रभुःप्रत्येतव्यो गुणिभिरखिलस्यापि जगतः . अर्हन् सर्वार्थवेदी यदुकुलतिलक: केशवः शङ्करो वा, बिभ्रद्गौरी शरीरे दधदनवरतं पद्मजन्माक्षसूत्रम् / 12 // 4 // // 6 //