________________ // 53 // शूरः शुचिः सुवचनोऽनुपमानुरागः प्राज्ञः कलासु कुशल: कलितेशचित्र:(त्तः)। यत्सेवको न लभते नृपतेरुदारा तत्कर्मनिर्मितमिति ध्रुवमामनन्ति - // 51 // यन्नृपतेः क्षपणादपि वल्गु फलमफल्गु वल्लभं लभते / / अधमाधमोऽपि मनुजस्तेनानुमिमीमहे कर्म // 52 // दारिद्र्यं विदुषां विपन्नयवतां सम्पद् गुणद्वेषिणां वैधव्यं च वधूजनस्य वयसि प्रोल्लासिंपीनस्तने। यत् प्रेयोविरहः स्थितिः सह खलैरन्यस्त्विदं दारुणं ... मुक्त्वा कर्म विचेतनं विकरुणं कश्चेतनश्चेष्टते दौर्गत्यं यदुदात्तचित्तसुधियां व्याधिव्यथाऽभोगिनां दौर्भाग्यं रमणीयरूपरमणीलोकस्य लक्ष्मीवताम् / तारुण्ये मरणं जितस्मरवपुः श्रीणां जरा श्रीमतां नैवेदं समपत्स्यतापहृदयं कर्माभविष्यन्न चेत् .. // 54 // शीलं कुलमकलङ्क कलाकलापातिकौशलं शौर्यम् / खलजन इवोपकारं निखिलं विफलयति खलु कर्म नयविनयादिविभूषितमदूषितापारपौरुषं पुरुषम् / कलुषमकलितमकाले समूलकाषं कषति कर्म . // 56 // अनुगुणेऽनुगुणं विगुणेऽन्यथा परिजनस्वजनेष्टजनादिकम् / भवति कर्मणि हन्त ! शरीरिणां नरपताविव पत्तिजनादिकम् // 57 // विगुणस्य पुरस्कारं कारयता गुणवतस्तिरस्कारम्। . ह(धृ)ष्टादृष्टेनायं निवेदितो निबिडनिजजडिमा निजजडिमा // 58 // किञ्चाविवादविषयो विहाय लोकायतं विषयलोलम् / कर्मान्ये मन्यन्ते सामान्येनाऽऽस्तिकाः सर्वे // 59 // 12