________________ येषु यावच्च रागोऽभूत्, तेषु तावच्च सद्गुणाः / द्वेषोत्पन्नेषु तेष्वेवं, दोषं पश्येद्धि केवलम् // 66 // द्वेषिणां ज्वरिणां लोकें द्वयोः साम्या प्रतिक्रिया / क्रूरत्वं कटुकत्वं च, बहिरन्तोऽपि तापवान् // 67 // श्रीद्वीपायनतापसेन महती प्रज्ज्वालिता द्वारिका द्वेषादेव च वर्धमाननगरे श्रीशूलपाणिरभूत् मारी येन विमोचित्ता च सहसा लोकाश्च दुःखीकृताः तस्मात्सोऽत्र विमुच्यतामिति जिनैर्व्याख्यायि सङ्ग्रेऽनघे // 68 // अग्निः सूते यथा धूम, धूमः सूतेऽसितद्युतिम् / अन्यायोऽपयशः सूते, तद्वत्क्लेशश्च किल्बिषम् // 69 // स्तोकोऽप्यग्निर्दहत्येव, काष्टादिप्रभृतं घनम्। . क्लेशलेशोऽत्र तद्वच्च, वृद्धितस्तनुदाहकः // 70 // कलङ्केन यथा चन्द्रः, क्षारेण लवणाम्बुधिः / . कलहेन तथा भाति, ज्ञानवानपि मानवः . // 71 // आत्मानं तापयेन्नित्यं, तापयेच्च परानपि। उभयोर्दुःखकृत्क्लेशो, यथोष्णरेणुका क्षितौ // 72 // संग्रामतोऽनेन सुखं ह्यवाप्तमिति श्रुतं केन न दृष्टमुर्त्यां / कंसेन सा जीवजसाशु लेभे या युग्मवंशक्षयकारिणी च // 73 // काचकामलदोषेण, पश्यन्नेत्रे विपर्ययम् / . अभ्याख्यानं वदेज्जिह्वा, तत्र रोगः क उच्यते // 74 // यथाऽभक्ष्यं न भक्ष्येत, द्वादशव्रतधारिभिः / अभ्याख्यानं न चोच्येत, तथा कस्यापि पण्डितैः // 75 // अग्निः स्तोकावृद्धिमायाति योगात् तद्वद्वृद्धि केशलेशः प्रयाति / अभ्याख्यानात् स्तोकतः कर्मवृद्धि प्राप्नोत्येवं कष्टतः सा न याति // 76 . . 127 मुख्या।