________________ // 57 / / // 58 // // 59 // // 60 // समुद्रस्यैव कल्लोला-त्कल्लोलो वर्धते यथा / तद्वल्लाभाच्च लोभोऽपि, मम्मणवणिजो यथा गणयेन्नापशब्दं च, पितरं भ्रातरं सुताम् / अपवादं भयं मृत्यो-र्लोभी यथा च मद्यपः .. नानाकर्मविपाकपाकवसतां हा नारकाणां भवे, मानाऽमानविचारमुक्तमनसां कामं तिरश्चां पुनः मृत्यानां शुभधर्मकर्मधरतां देवार्चनं कुर्वतां, लेखानां खलु दुर्जयो हि सततं लोभो जगद्व्यापकः मुच्यते शृङ्खलाबद्धो, नाडीबद्धोऽपि मुच्यते / न मुच्यते कथमपि, प्रेम्णा बद्धो निरर्गलः भर्तुविरहतो नार्यः, प्रविशन्त्यनलान्तरे। स्वेच्छया च सहर्षेण, तत्र प्रेमप्रपञ्चकः मनस्तत्र वचस्तत्र, जीवस्तत्रैव संवसेत् / नेत्रावलोकनं रागी तत्र यत्रोपतिष्ठते रागिणि गुणतां पश्ये-द्वैगुण्यं हि विरक्तके। रागी गुणावगुणञ्च, न परीक्षति कर्हिचित् अय:पोतो नीरे तरति तपनः शीतकिरणं, दधात्येवं नित्यं किमु कुमुदबन्धुः खरकरम् / धरत्युर्वी गुर्वी कथमपि च भारेण नमति, तथा तीव्र रागे कनकरथवच्छं भवति भोः यस्माच्च बद्ध्यते कर्म, तपस्यतो न मुच्यते / तत्प्राणिनामिति ज्ञात्वा, त्याज्यो द्वेषो बुधैः स च स्वकीयं परकीयं च द्वेषाज्जनं सदा जनाः। . विद्धयेरन् वाक्यशल्यैश्च, बब्बुलकण्टका यथा // 61 // // 62 // // 63 // // 64 // // 65 // 16