________________ भोगासक्तमना नृपो मणिरथो भ्रात्रा समं चाऽकरोत् द्रोहं मोहवशात्परन्तु तदनु प्राप्तं फलं कीदृशम् / // 34 // प्रमेहिनां विषं सर्पि-मैथुनं चक्षुरोगिणाम् / तद्वन्निश्शेषजन्तूनां, कालकूटः परिग्रहः // 35 // यथाब्धेर्जलबिन्दूनां, संख्या नैवात्र लभ्यते। / तथैव धनलुब्धानां, दुःखमानं न दृश्यते // 36 // अशुष्कं यदि वाशुष्क- मग्निः किं गणयेत् कदा / परिग्रहरतस्तद्वन्, न जानते परं निजम् // 37 // शीतज्वरीव शीतेन, वस्त्रावृत्तोऽपि पीड्यते / परिग्रही धनासक्तः, पीड्यते धनतृष्णया // 38 // गिर्यारोहणतां समुद्रतरणं देशाटनासेक्नं, पाताले विवरे प्रवेशकरणं नि:शङ्कमित्यादिकम् / यः कुर्याच्च परिग्रहैकहृदयश्चेष्टामनेकामिह, मृत्वेतो नरकावटेषु गमनं चक्री सुभूमोऽकरोत् // 39 // दण्डमुष्टिप्रहाराद्य-नर्थान् करोत्यनेकशः / भूतावेष्टितवल्लोके, कोपयुक्तो हि मानवः दुर्गतिप्रापणे पक्षो, विपक्षः शुभकर्मणाम् / सपक्ष आपदः क्रोधः, स केनाद्रियते ततः // 41 // ज्वलद्बबूलवद्भाति, कायः प्रायोऽति कोपिनः / मुखे छायान्तरे दाहः, सर्वेषां भीमदर्शनः // 42 // आकरः सर्वदोषाणां, गुणानां च दवानलः / संकेतोऽखिलकष्टानां, क्रोधस्त्याज्यो मनीषिणा // 43 // क्रोधाभिभूतपुरुषा नरके व्रजेयु- स्तत्रापि ताडननिबन्धनमारणोत्थम् / दुःखंधनंचसहनंकृतकर्मणांच, श्रीकृष्णवज्जनगणा:समुपार्जयन्ति।४४ 124 // 40 //