________________ असत्यवक्तुर्भुवि पक्षपातं, कुर्यान्न विद्वान् किल संकटेऽपि / तेन ध्रुवं हि वसुराजवत्स, इहापवाद नरकं परत्र // 24 // कातराणां यथा धैर्य, वन्ध्यानां संततिर्यथा / न विश्वासस्तथा लोके, नृणामदत्तहारिणाम् // 25 // कुक्षि शाकेन पूर्येत, यदि स्तोकं धनार्जनम् / परं नाऽदत्तमादद्या-द्यतः स्याद्भूपतेर्भयम् // 26 // अदत्तं धनं नादद्यात्, सुखलिप्सुर्हि मानवः / स सद्योदुःखमाप्नुयान्, मण्डुकचौरवत्किल // 27 // अनिष्टः खचरे घूकः, स्वामिद्रोही नरेषु च / अनीष्टादप्यनिष्टञ्च, अदत्तमपलक्षणे // 28 // माऽदत्तं हि गृहाण वस्तु यदि चेत् तन्नास्ति यद्भुज्यते, धैर्य धेहि तथापि पक्षिनिवहा नीरं लभन्ते स्थले / दत्तं येन वपुः स एव भुवि नो चिन्तां करिष्यत्यहो, का वार्ता खलु ताः समग्ररचनांश्चिन्ता च तस्मिन् स्थिता // 29 // स्त्रीलुब्धो जगति यश्चाऽत्यजद् यशस्तु तं नरम् / दासीलुब्ध्या यथा मुञ्जओ, ऽपकीर्त्या गीयते न किम् // 30 // अन्तर्दृष्टा मुखे मिष्टा, अनिष्टाका अतः परम् / विषवल्लरीवत्त्याज्या, ज्ञानिभिः सुखकामिभिः // 31 // उग्रसम्भोगतः सूरि-कन्ता हि नरकं गता। . स्वर्गं गतः प्रदेशी च, तत्र संवरकारणम् / // 32 // अन्तः श्यामा बहिः श्यामा, रक्षाया गुटिका इव / बहिर्दधति सौन्दर्य-मन्तस्ता भस्मराशयः // 33 // श्रीमत्कोणिकराट् च चेटकनृपैः साकं महत्सङ्गरं, चक्राणः किलकामकेलिकलितः पद्मावतीप्रेरितः / . . . . 123