________________ पुरीषं भषणः पळू, मण्डुका भस्म रासभाः। परदोषान् खलः प्रायः, स्वभावात् परिचिन्वते . // 281 / / चौराश्चौरं च दुःशीला, दुःशीलं साधु साधवः / ये यादृशा भवेयुस्ते, तादृशं मन्वते जगत् // 282 // का सङ्ख्याकाशतारासु, का सङ्ख्या वार्चिवीचिषु / का सङ्ख्या घनधारासु, का सङ्ख्या दुर्जनोक्तिषु? ' // 283 // उलूकः शुकतां काको, हंसतां रासभोऽश्वताम् / महिषो हस्तितां नीचः, साधुतां नाञ्चति वंचित् // 284 // सैव लक्ष्मीवतां लक्ष्मीः, कला सैव कलावताम् / .. विद्या विद्यावतां सैव, जीयते दुर्जनो यया // 285 // इदं पुण्यवतां पुण्यं, प्रतापोऽयं प्रतापिनाम् / मनीषिणां मनीषेयं, खण्ड्यते यत्खलाननम् // 286 // खलजिह्वा त्वहेर्दष्ट्रा, वृश्चिकस्य च कण्टकम् / युक्तिः शक्तिमतां विश्व-प्रीत्यै नैतदितीक्ष्यताम् .. // 287 // जानाति विप्रियं वक्तुं, रमते निन्द्यकर्मसु / / जहाति साधुसङ्गं यः, प्राज्ञैः प्रोक्तः स जारजः // 288 // परदोषमविज्ञातं, विज्ञातं चाश्रुतं श्रुतम् / अदृष्टं दृष्टमाख्याति, जारजातो जनः स्फुटम् // 289 // कल्पनात्परदोषस्य, परदोषस्य जल्पनात् / स्थापनात्परदोषस्य, परजातः परीक्ष्यताम् // 290 // पितृ-मातृ-गुरु-स्वामि-द्रोहिविश्वासघातकृत् / कृतघ्नो धर्मविघ्नो यः, सोऽन्यजन्मपुमान्मतः - // 291 // दोषवादी गुणाच्छादी, पूज्यपूजाविपर्ययी। निर्लज्जोऽकार्यसज्जः स्यात्, परजायाप्रियात्मजः / // 292 //