________________ // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // ययावकम्पितोऽपीशमीशोऽवोचदकम्पित ! / न सन्त्यदृश्यमानत्वान्नारका इति ते मतिः / तदसन्नारकाः कामं पारतन्त्र्यवशादिह / आगन्तुमक्षमा गन्तुं तत्र च त्वादृशा अपि प्रत्यक्षं नोपलभ्यास्ते युक्तिगम्या भवादृशाम् / प्रत्यक्षा एव ते सन्ति क्षायिकज्ञानिनां पुनः क्षायिकज्ञानिनोऽप्यत्र नो सन्तीति स्म मा ब्रवीः / मयैव व्यभिचारोऽस्या आशङ्कायाः परिस्फुटः इति श्रुत्वा प्रतिबुद्धोऽकम्पितः स्वामिनोऽन्तिके / उपाददे परिव्रज्यां त्रिभिः शिष्यशतैः समम् अथाऽऽगादचलभ्राता प्रभुं प्रभुरपि स्फुटम् / ऊचे तवाचलभ्रातः ! सन्देहः पुण्यपापयोः मा कृथाः संशयं तत्र यत्फलं पुण्यपापयोः / . प्रत्यक्षं दृश्यते लोके तथैव व्यवहारतः दीर्घमायुः श्रियो रूपमारोग्यं जन्म सत्कुले / इत्यादि पुण्यस्य फलं विपरीतं तु पाप्मनः . भगवता च्छिनसंशयः समुपाददे / . प्रव्रज्यामचलभ्राता त्रिभिः शिष्यशतैः सह मेतार्यः स्वामिनमगात् स्वाम्यूचे तव धीरियम् / भवान्तरप्राप्तिरूप: परलोको न विद्यते भूतसंदोहरूपत्वाज्जीवस्येह चिदात्मनः / परलोकः कथं भूताऽभावे तस्याप्यभावतः तदसत् खलु जीवस्य भूतेभ्यो हि स्थितिः पृथक् / पिण्डितेष्वपि भूतेषु चेतनानुपलम्भतः // 75 // // 76 // // 77 // // 78 // // 79 // // 80 // ___331