________________ इत्याकर्ण्य सुधर्माऽपि पञ्चशिष्यशतीयुतः / / प्रव्रज्यामाददे पायें स्वामिपादारविन्दयोः // 57 // मण्डिकोऽपि जगामाऽथ स्वामिनं संशयच्छिदे। .. स्वाम्यप्युवाच तं बन्धमोक्षयोस्तव संशयः .: // 58 // तदसद् बन्धमोक्षौ हि प्रसिद्धौ तत्र चात्मनः / मिथ्यात्वादिकृतः कर्मसंबन्धो बन्ध उच्यते // 59 // रज्जुबद्ध इव श्वभ्रप्तिर्यग्नृसुरभूमिषु / दुःखं तेनानुभवति प्राणी परमदारुणम् // 60 // ज्ञानदर्शनचारित्रप्रमुखैहेतुभिस्तु यः / . वियोगः कर्मणां ज्ञेयः स मोक्षोऽनन्तशर्मदः // 61 // अप्यनादिमिथः सिद्धयोगानां जीवकर्मणाम् / ज्ञानादिना स्याद्वियोगोऽग्निना स्वर्णाऽश्मनामिव // 62 // इति स्वामिगिरा छिनसंशयो मण्डिकोऽपि हि / सार्धत्रिशत्या शिष्याणां सहितो व्रतमाददे // 63 // मौर्यपुत्रोऽपि संदेहच्छिदे स्वामिनमाययौ / स्वाम्यप्यूचे मौर्यपुत्र ! तव देवेषु संशयः // 64 // स मिथ्या पश्य नन्वेतान् प्रत्यक्षमपि नाकिनः / अस्मिन् समवसरणे शकादीन् स्वयमागतान् // 65 // संगीतकादिवैयग्र्यान्मर्त्यगन्धाच्च दुःसहात् / नायान्ति शेषकालेऽमी तदभावो न तावता // 66 // अर्हज्जन्माभिषेकादावायान्ति यदमी भुवि / प्रभावः कारणं तत्र गरीयान् श्रीमदर्हताम् इति स्वामिगिरा बुद्धो मौर्यपुत्रोऽपि तत्क्षणम् / . परिवव्राज शिष्याणां साधं साधैः शतैत्रिभिः / // 68 // 330