________________ शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि / प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् // 6 // प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेज्जिनम् / पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् .. // 7 // ततो गुरूणामभ्यर्णे प्रतिपत्तिपुरःसरम् / विदधीत विशुद्धात्मा प्रत्याख्यानंप्रकाशनम् अभ्युत्थानं तदालोकेऽभियानं च तदागमे / शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् // 9 // आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् / तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः // 10 // ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् / सुधीर्धर्माविरोधेन विदधीतार्थचिन्तनम् // 11 // ततो मध्याह्निकी पूजां कुर्यात् कृत्वाथ भोजनम् / तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् // 12 // ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः / कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् // 13 // न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः / निद्रामल्पामुपासीत प्रायेणाब्रह्मवर्जकः शानदावर्जकः // 14 // निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् / महात्मनां मुनीनां हि तन्निवृत्तिं परामृशन् // 15 // यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः / स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः // 16 // बहिरन्तविपर्यासः स्त्रीशरीरस्य चेद्भवेत् / .. . तस्यैव कामुकः कुर्याद्गृध्रगोमायुगोपनम् . ___ // 17 // 314