________________ // 12 // // 13 // // 14 // अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः / अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् यथावदतिथौ साधौ दीनेच प्रतिपत्तिकृत् / सदानभिनिविष्टश्च पक्षपाती गुणेषु च अदेशाकालयोश्चर्यां त्यजानन् बलाबलम् / वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः / सलज्जः सदयः सौम्यः परोपकृतिकर्मठः अन्तरङ्गारिषड्वर्गपरिहारपरायणः / वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते संसारेऽस्मिन्मनुष्येण चैतन्यफलमिच्छता / सेव्यः श्रावकधर्मोऽपि यतिधर्माक्षमेणं तु . // 15 // // 17 // ___ = = // एकविंशतितमश्रीनमिजिनदेशना-श्रावकाहोरात्रचर्या // असारः खलु संसारः चलर्मिचलं धनम् / विद्युद्विलाससदृशं शरीरमपि नश्वरम् // 1 // अनास्थां सर्वथा तेषु तद्विधाय विचक्षणः / . यतेत यतिधर्माय मुमुक्षुर्मोक्षवमने // 2 // अशक्तस्तद्विधाने चेत्तदाकाङ्क्षी तथापि हि। . सम्यक्छ्रावकधर्मायोत्तिष्ठेत द्वादशात्मने // 3 // नयेन्नित्यमहोरात्रं श्रावकस्त्वप्रमद्वरः / धाभिरिति चेष्टाभिर्मनोवाक्कायजन्मभिः // 4 // ब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुति पठन् / किंधर्मा किङ्कलश्चास्मि किंव्रतोऽस्मीति च स्मरन् 313 = = =