________________ // 111 // // 112 // // 113 // // 114 // // 115 // // 116 // लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् / . लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् मृदित्वा शास्त्रसर्वस्वं तदेतदवधार्यताम् / लोभस्यैकस्य हानाय प्रयतेत महामतिः लोभसागरमुढेलमतिवेलं महामतिः / संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् यथा नृणां चक्रवर्ती सुराणां पाकशासनः / तथा गुणानां सर्वेषां संतोषः प्रवरो गुण: संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः / / तुलया संमितो मन्ये प्रकर्षः सुख-दुःखयोः स्वाधीनं राज्यमुत्सृज्य संतोषामृततृष्णया / नि:सङ्गत्वं प्रपद्यन्ते तत्क्षणाच्चक्रवर्तिनः निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः / अङ्गुल्या पिहिते कर्णे शब्दाद्वैतं हि जृम्भते संतोषसिद्धौ संसिद्धाः प्रतिवस्तुविरक्तयः / अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् किमिन्द्रियाणां दमनैः ? किं कायपरिपीडनैः ? ननु संतोषमात्रेण मुक्तिश्रीर्मुखमीक्षते जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः / किं वा विमुक्तेः शिरसि श्रृङ्गं किमपि वर्तते ? किं रागद्वेषसंकीर्णं ? किं वा विषयसंभवम् ? येन संतोषजं सौख्यं हीयेत शिवशर्मणः परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः ?' मीलिताक्षा विमृशन्तु संतोषास्वादजं सुखम् 302 // 117 // // 118 / / // 119 // // 120 // // 121 / / // 122 //