________________ // 99 // // 100 // // 101 // // 102 // // 103 // // 104 // अहो ! लोभस्य साम्राज्यमेकच्छवं महीतले / तरवोऽपि निधि प्राप्य पादैः प्रच्छादयन्ति यत् अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः / स्वकीयान्यधितिष्ठन्ति प्राग्निधानानि मूर्च्छया भुजङ्गगृहगोधाऽऽखुर्मुख्याः पञ्चेन्द्रिया अपि / धनलोभेन लीयन्ते निधानस्थानभूमिषु पिशाच-मुद्गल-प्रेत-भूत-यक्षादयो धनम् / स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः भूषणोद्यानवाप्यादौ मूर्छितास्त्रिदशा अपि / च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति / लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि एकामिषाभिलाषेण सारमेया इव द्रुतम् / . सोदर्या अपि युध्यन्ते धनलेशजिघृक्षया / लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः / ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् हास-शोक-द्वेष-हर्षानसतोऽप्यात्मनि स्फुटम् / स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नट इव आरभ्यते पूरयितुं लोभगर्तो यथा यथा / तथा तथा महच्चित्रं मुहुरेष विवर्धते अपि नामैष पूर्येत पयोभिः पयसां पतिः / न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः / भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते // 105 // // 106 // // 107 // // 108 // // 109 // // 110 // 301