________________ विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति / प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति / // 34 // सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति / उभावपि परावृत्त्या स्यातामान्तर्मुहूर्तिको // 35 // कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः / तस्मादपूर्वकरणः क्षपकः शमकश्च सः यद्बादरकषायाणां प्रविष्टानामिमं मिथः / परिणामा निवर्तन्ते निवृत्तिबादरोऽपि सः // 37 // परिणामा निवर्तन्ते मिथो यत्र न यत्नतः। ... अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः // 38 // लोभाभिधः संपरायः सूक्ष्मकिट्टीकृतो यतः / स सूक्ष्मसंपरायः स्यात् क्षपकः शमकोऽपि च .. // 39 // अथोपशान्तमोह: स्यान्मोहस्योपशमे सति / मोहस्य तु. क्षये जाते क्षीणमोहं प्रचक्षते .. // 40 // सयोगिकेवली घातिक्षयादुत्पन्नकेवलः / योगानां च क्षये जाते स एवायोगिकेवली // 41 // अजीवाः स्युर्धर्माधर्मविहाय:कालपुद्गलाः / / जीवेन सह पञ्चापि द्रव्याण्येते निवेदिताः // 42 // तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः / विना जीवमचिद्रूपा अकर्तास्च ते मताः // 43 // कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना / . उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः // 44 // पुद्गलाः स्युः स्पर्श-रस-गन्ध-वर्णस्वरूपिणः / तेऽणुस्कन्धतया द्वेधा तत्राबद्धाः किलाणकः // 45 // 20