________________ // 15 // // 16 // यथैवोपचितो दोषः शोषमायाति लङ्घनात् / तथैव तपसा कर्म क्षीयते पूर्वसंचितम् यथा वा मेघसंघाताः प्रचण्डपवनैर्हताः / इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा प्रतिक्षणं प्रभवन्त्यावपि संवरनिजरे।। प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् निर्भरां निर्जरां कुर्वंस्तपोभिर्द्विविधैरपि / सर्वकर्मविनिर्मोक्षं मोक्षमाप्नोति शुद्धधीः // 17 // // 18 // ॥द्वादशश्रीवासुपूज्यजिनदेशना- धर्मस्वाख्यातत्वभावनामयी॥ संसारसागरेऽमुष्मिन् शमिलायुगयोगवत् / कथञ्चित् प्राप्य मानुष्यं भाव्यं धर्मपरैर्नरैः स्वाख्यातः खलु धर्मोऽयं सर्वैरपि जिनोत्तमैः / यं समालम्बमानो हि न मज्जेद् भवसागरे संयमः सूनृतं शौचं ब्रह्माकिञ्चनता. तपः / / क्षान्तिर्दिवमृजुता मुक्तिश्च दशधा स तु धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् / गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् / सदा सविधव]कबन्धुर्धर्मोऽतिवत्सलः आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः / यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलः न ज्वलत्यनलस्तिर्यग् यदूर्वं वाति नानिलः / अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् // 4 // 282