________________ // 3 // // 4 // // 6 // // 7 // // 8 // संसारबीजभूतानां कर्मणां जरणादिह / निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् / कर्मणां फलवत् पाको यदुपायात् स्वतोऽपि च सदोषमपि दीप्तेन सुवर्णं वह्निना यथा / तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति अनशनमौनोदयं वृत्तेः संक्षेपणं तथा / रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च / व्युत्सर्गोऽथ शुभध्यानं षोढेत्याभ्यन्तरं तपः दीप्यमाने तपोवौ बाह्ये चाभ्यन्तरेऽपि च / यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् यथा हि पिहितद्वारमुपायैः सर्वतः सरः / नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा तथैवाश्रवरोधेन कर्मद्रव्यैर्नवैर्नवैः / अयं न पूर्यते जीवः संवरेण समावृतः यथैव सरसस्तोयं संशुष्यति पुराचितम् / दिवाकरकरालांशुपातसंतापितं मुहुः तथैव पूर्वसंबद्धं सर्वं कर्म शरीरिणाम् / ' तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः / तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः चिराजितानि भूयांसि प्रबलान्यपि तत्क्षणात् / कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः 281 // 9 // // 10 // // 11 // // 12 // // 13 // // 14 //