________________ . // 44 // // 45 // // 46 // // 47 // . // 48 // मौखर्या-ऽऽक्रोशौ सौभाग्योपघातः कार्मणक्रिया / परकुतूहलोत्पादः परिहास-विडम्बने वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् / देवादिव्याजाद् गन्धादिचौर्य तीव्रकषायता चैत्य-प्रतिश्रया-ऽऽराम-प्रतिमानां विनाशनम् / अङ्गारादिक्रिया चैवाशुभस्य नाम्न आश्रवाः एत एवान्यथारूपास्तथा संसारभीरुता। प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपिं च दर्शने धार्मिकाणां च सम्भ्रमः स्वागतक्रिया / आश्रवाः शुभनाम्नोऽथ तीर्थकृन्नाम्न आश्रवाः भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च / बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु आवश्यके व्रत-शीलेष्वप्रमादो विनीतता / ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ध्यानं प्रभावना सधे समाधिजननं वैयावृत्यं च साधुषु / अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः / एको द्वौ वा त्रयः सर्वे वाऽन्यैः स्पृष्टा जिनेश्वरैः परस्य निन्दा-ऽवज्ञोपहासा: सद्गुणलोपनम् / सदसदोषकथनमात्मनस्तु प्रशंसनम् . सदसद्गुणशंसा च सदोषाच्छादनं तथा / जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी नीचैर्गोत्रावविपर्यासो विगतगर्वता / .. वाक्काय-चित्तैविनय उच्चैर्गोत्राश्रवा अमी . 208 // 49 // // 50 // // 51 // // 52 // // 54 //