________________ // 271 // // 272 // // 273 // // 274 // // 275 // // 276 // दशयोजनसहस्रातिरिक्तविस्तृतास्तले / . सहस्रयोजनाश्चोर्ध्वं, क्षुद्रा मेरूच्छ्याश्च ते तत्र प्राग् देवरमणो, नित्योद्योतश्च दक्षिणः / स्वयम्प्रभः प्रतीच्यस्तु, रमणीय उदस्थितः शतयोजन्यायतानि, तदर्धं विस्तृतानि च / द्विसप्ततियोजनोच्चान्यर्हच्चैत्यानि तेषु च पृथग्द्वाराणि चत्वार्युच्चानि षोडशयोजनीम् / प्रवेशे योजनान्यष्ट, विस्तारेऽप्यष्ट तेषु तु तानि देवाऽसुर-नाग-सुपर्णानां दिवौकसाम् / समाश्रयास्तेषामेव, नामभिर्विश्रुतानि च षोडशयोजनायामास्तावन्मात्र्यश्च विस्तृतौ। / अष्टयोजनिकोत्सेधास्तन्मध्ये मणिपीठिकाः सर्वरत्नमया देवच्छन्दकाः पीठिकोपरि। पीठिकाभ्योऽधिकायामोच्छ्यभाजश्च तेषु तु ऋषभा वर्धमाना च, तथा चन्द्राननाऽपि च / वारिषेणा चेति नाम्ना; पर्यङ्कासनसंस्थिताः रत्नमय्यो युताः स्वस्वपरिवारेण हारिणा / शाश्वतार्हत्प्रतिमाः प्रत्येकमष्टोत्तरं शतम् . द्वे द्वे नाग-यक्ष-भूत-कुण्डभृत्प्रतिमे पृथक् / प्रतिमानां पृष्ठतस्तु, च्छत्रभृत्प्रतिमैकिका तेषु धूपघटी-दाम-घण्टा-ऽष्टमङ्गली-ध्वजाः / छत्र-तोरण-चङ्गेर्यः, पटलान्यासनानि च षोडश पूर्णकलसादीन्यलङ्करणानि च / सुवर्णरुचिररजोवालुकास्तलभूमयः 251 // 277 // || 278 // // 279 // // 280 // . // 281 // // 282 //