________________ // 259 // // 260 // // 261 // // 262 // // 263 // // 264 // योजनानां सप्तशतावगाहा-ऽऽयाम-विस्तृताः। . अश्व-सिंह-हस्तिकर्णाः, कर्णप्रावरणः क्रमात् ततोऽष्टयोजनशती, लवणोदेऽवगाहिनः / तावदायामसहितास्तावद्विष्कम्भशालिनः . द्वीपा उल्कामुखो विद्युज्जिह्ये मेषमुखोऽपि च / विद्युद्दन्तश्च चत्वार, ऐशान्यादिविदिक्क्रमात् योजनानां नवशती, ततोऽपि लवणोदधेः / अवगाह्य स्थितास्तावद्विष्कम्भा-ऽऽयामशालिनः नाम्ना गूढदन्तो घनदन्तकः श्रेष्ठदन्तकः / शुद्धदन्तश्च चत्वारोऽन्तरद्वीपा विदिक्कमात् अष्टाविंशतिरेवं च, शिखरिण्यपि पर्वते / एकत्र मेलिताः सर्वे, षट्पञ्चाशद् भवन्ति ते मानुषोत्तरपरतः, पुष्करा) द्वितीयकम् / पुष्करस्य परिक्षेपी, द्विगुणः पुष्करोदकः . ततोऽपि वारुणिवरौ, नाम्ना द्वीप-पयोनिधी। ततः परं क्षीरवरौ, नामतो द्वीप-सागरौ ततो घृतवरौ द्वीपा-ऽम्बुधी इक्षुवरौ ततः / ततो नन्दीश्वरो नाम्नाऽष्टमो द्वीपो धुसन्निभः एतद्वलयविष्कम्भे, लक्षाशीतिश्चतुर्युता / योजनानां त्रिषष्टिश्च, कोट्यः कोटिशतं तथा असौ विविधविन्यासोद्यानवान् देवभोगभूः / जिनेन्द्रपूजासंसक्तसुरसम्पातसुन्दरः अस्य मध्यप्रदेशे तु, क्रमात् पूर्वादिदिक्षु च / / अञ्जनवर्णाश्चत्वारस्तिष्ठन्त्यञ्जनपर्वताः ૨પ૦ // 265 // // 266 // // 267 // // 268 // // 269 // // 270 //