________________ // 7 // // 8 // // 10 // // 11 // // 12 // शृङ्खलिताम्भोदमिव, महद्भिरघट्टकैः / . गुञ्जन्मधुकररावैराह्वयन्तमिवाऽध्वगान् तमाल-ताल-हिन्ताल-चन्दनैर्मध्यवर्तिभिः / दिवाकरकरत्रासात्, तिमिरैरिव सेवितम् चूत-चम्पक-पुन्नाग-नाग-केसरकेसरैः / जगत्येकातपत्रत्वं, तन्वानं सौरभश्रियः ताम्बूली-लवली-द्राक्षावितानैरतिसन्ततैः / . पान्थयूनां विना यत्तं , तन्वन्तं रतिमण्डपान् भद्रशालमिवाऽऽयातं, मेरुशैलतलावनेः / भृशाभिराममारामं, तदाऽद्राक्षमहं व्रजन् चिरेण दिग्जयं कृत्वा, निवृत्तः पुनरप्यहम् / आरामस्याऽन्तिके तस्य, सह चम्वा समागमम् उत्तीर्य वाहनेभ्योऽहं, कौतुकात् सपरिच्छदः / तदन्तः प्रविशन्नन्यादृक्षमद्राक्षमग्रतः इति चाऽचिन्तयमहं, भ्रान्तोऽन्यत्र किमागमम् ? / इदं किं वा परावृत्तमिन्द्रजालमथेदृशम् ? यत् क्व पत्रलता साऽर्ककरप्रसरवारणी ? / क्व वाऽसावातपस्यैकातपत्रत्वमपत्रता क्व सा कुञ्जेषु विश्रान्तरमणीरमणीयता ? / निद्रायमाणाजगरदारुणत्वमिदं क्व च ? / कलापिकलकण्ठादिमधुरालापिता व सा ? / विलोलकाकोलकुलरोलव्याकुलता व च? प्रलम्बलम्बमानाशिम्बीबहलता व सा?i क्व चैषा शुष्कशाखाग्रदोलायितभुजङ्गता // 13 // // 14 // // 17 // . // 18 // 22